साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 173, कुल 506 में से
संदर्भ में पढ़ें२१८ साहित्यदर्पणे अत्र कविप्रौढोक्तिसिद्धेनापह्नुत्यलंकारेण भविष्यद्राक्षसश्रीविनाश- रूपं वस्तु व्यज्यते । 'धम्मिले नवमल्लिकासमुदयो हस्ते सिताम्भोरुहं हारः कण्ठतटे पयोधरयुगे श्रीखण्डलेपो घनः । एकोऽपि त्रिकलिङ्गभूमितिलक त्वत्कीर्तिराशिर्यौ नानामण्डनतां पुरंदरपुरीवामभ्रुवां विग्रहे ॥' अत्र कविप्रौढोक्तिसिद्धेन रूपकालंकारेण भूमिष्ठोऽपि स्वर्गस्था- मुपकारं करोषीति विभावनालंकारो व्यज्यते । 'शिखरिणि क्व नु नाम कियच्चिरं किमभिधानमसावकरोत् तपः । सुमुखि येन तवाधरपाटलं दशति विम्बफलं शुकशावकः ॥' अत्रानेन कविनिबद्धस्य कस्यचित्कामिनः प्रौढोक्तिसिद्धेन वस्तु- तवाधरः पुण्यातिशयलभ्य इति वस्तु प्रतीयते । 'सुभगे कोटिसंख्यत्वमुपेत्य मदनाशुगैः । वसन्ते पञ्चता त्यक्ता पञ्चतासीद्वियोगिनाम् ॥' प्रकृतानामश्रुविन्दूना स्थापनमपह्नुति । अत्र राक्षसश्रियाऽश्रुविन्दूनामनीकत्वं कविप्रौढोक्तिमात्रसिद्धम् ॥ कविप्रौढोक्तिसिद्धालंकारव्यङ्ग्यमलंकारमाह—धम्मिल्ल इति । 'धम्मिल्लः संयता कचा' इत्यमर । समुदयः समूह । श्रीखण्डलेपश्चन्दन- प्रलेपः । विग्रहे देहे । अत्र कीर्तिराशेर्धावल्यरूपसादृश्यमप्रसिद्धमपि कविप्रतिभा- मात्रसिद्धमिति तन्मूलकरूपकस्यापि तथात्वमिति भाव । स्वर्गस्थानामुपकारे तत्र- स्थितिरथ कारण ता विनापि भवतीति विभावना । उपकारश्च यज्ञादिद्वारेण ॥ कवि- निबद्धप्रौढोक्तिसिद्धवस्तुव्यङ्ग्यं वस्तुमाह—शिखरिणीति । अधरवत्पाटलं रक्तं शुकशाव- कस्य तपश्चरणं प्रौढोक्तिमात्रसिद्धम् । यत्सादृश्येनोत्कृष्टं वस्तु पुण्यं विना न लभ्यते तस्य सुतरामेव पुण्यातिशयलभ्यत्वमिति भाव ॥ कविनिबद्धवस्तुव्यङ्ग्यमलंकार- माह—सुभगे इति । पञ्चता पञ्चसख्योपयोगित्वं मरणं च ॥ कविनिबद्ध... १. त्रिकेति । त्रैलिङ्गदेशभूषणम् ॥ दशतीति । दशनै आस्वादयते । अनवच्छिन्नप्रबन्धतया न त्वादृशी... अपि तु रमणोऽत्र तत्प्राप्तिनेन रम्यताप्यस्य तपःप्रभावादेवेति । शुकशावक इति चिन्त्यः अहोऽपि कश्च तपस एवेति सहृदयाः ॥ क. २ 'कविप्रौढोक्तिमात्रसिद्धम्' इति पुस्तकान्तरे नास्ति.