साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 174, कुल 506 में से
संदर्भ में पढ़ेंचतुर्थः परिच्छेदः । २१९ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन कामनृपाणां कोटिसङ्ख्यस्व- प्राप्त्या निखिलवियोगिमरणेन वस्तुना शराणां पञ्चता शरान्विसृज्य वियोगिनः श्रितेवेत्युत्प्रेक्षालङ्कारो व्यज्यते । ‘मल्लिकामुकुले चण्डि भाति गुञ्जन्मधुव्रतः । प्रयाणे पञ्चबाणस्य शङ्खमापूरयन्निव ॥’ अत्र कविनिबद्धवक्तृप्रौढोक्तिसिद्धेनोत्प्रेक्षालङ्कारेण अनन्यवस्तु- ऽन्मादकः कालः प्राप्तस्तत्कथं मानिनि मानं न मुञ्चसीति वस्तु व्यज्यते । ‘महिलामहस्सभरिए तुह हिअए सुहअ मा अमाअन्ती । अणुदिणमणण्णकम्मा अङ्गं तणुअं पि तणुएइ ॥’ अत्रामाअन्तीति कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन वाच्यातिशयो- क्तिरूपेण तनोस्तनूकरणेऽपि तव हृदये न वर्तत इति विशेषोक्त्यलङ्कारो व्यज्यते । न खलु कवेः कविनिबद्धस्येव रागाद्याविष्टता अतः कविनिबद्ध- वक्तृप्रौढोक्तिः कविप्रौढोक्तेरधिकं सहृदयचमत्कारिणीति पृथगु- विवक्षितवाच्यध्वनेरुदाहरणमाह—मल्लिकेति । चण्डि इति सम्बोधने । अत्रानन्येति तत्तथैवेति शेषः । उन्मादकः औत्सुक्यादिजनक इत्यर्थः । 'अनन्य' इति विशेष- णस्याप्युक्त एवार्थः । उत्प्रेक्षालङ्कारस्य व्यञ्जकत्वमुदाहृत्य विशेषोक्त्यलङ्कारस्य व्यञ्ज- कत्वमाह ॥ अथ कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन वस्तुनालङ्कारव्यञ्जनमाह—महिलाति । ‘महिलासहस्रभरिते तव हृदये सुभग अत्रामायन्ती । अनुदिनमनन्यकर्मा अङ्गं तनु- कमपि तनूकरोति' इति संस्कृतम् । अत्र सुभगेत्यामन्त्रणम् । अमायन्ती अनायती अप्रविशन्तीत्यर्थः । ननु तव हृदये बहुतरनारीसमावेशात् तद्बाहुल्येनाहं तत्र स्थातुं न शक्नो- मीति सिद्धेऽपि यत्तनुकरणं, तत्तु त्वय्यतिशयितप्रेम्णैव; अन्यथा तनुकस्यापि शरीरा- ङ्गस्याभावात् कथं तत्र प्रवेशाय प्रयत्नः स्यादिति भावः । अत्र विशेषोक्त्यलङ्कारव्यञ्ज- कत्वेनोदाहरणात् कविनिबद्धवक्तृप्रौढोक्तिसिद्धेन वस्तुना विशेषोक्त्यलङ्कारो व्यज्यत इति सिद्धम् । कविनिबद्धवक्तृप्रौढोक्तिरधिकं चमत्करोतीति वदता ग्रन्थेन यत्प्रका- शितं तद्व्याचष्टे—नन्विति । न खलु कवेरित्यादि । यतः कवेरविद्यमानत्वात् तद्वि- योनिवृत्त्यर्थं कामोपभोगादिकं न सम्भवति; अन्यस्य तु तत्सम्भवादिति भावः । अनूद्देश्यसामर्थ्यादर्थान्तरमाह—अतः कविनिबद्धेति । वक्तुरिति शेषः ॥