साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 175, कुल 506 में से
संदर्भ में पढ़ें२२० साहित्यदर्पणे तिपादिताः । एषु चालंकृतिव्यञ्जनस्थले रूपकोत्प्रेक्षणव्यतिरेचन- मात्रस्य प्राधान्यं सहृदयसंवेद्यम्, न तु रूप्यादीनामित्यलङ्कृते- र्मुख्यत्वम् । एकः शब्दार्थशक्त्युत्थे— उभयशक्त्युद्भवे व्यङ्ग्ये एको ध्वनेर्भेदः । यथा— ‘हिममुक्तचन्द्ररुचिरं सपद्मको मदयन्द्विजाञ्जनितमीनकेतनः । अभवत्प्रमादिनमुरो महोत्सवः प्रमदाजनस्य स चिराय माधवः ॥’ भा० । ननु यत्रालङ्कारस्य व्यङ्ग्यत्वमुक्तं तत्रालङ्कार्यस्य वस्तुनोऽपि व्यङ्ग्यत्व- मस्तीति स्वमलङ्कारस्य पृथगुपादानमत आह—एषु चेति । प्रागुक्तोदाहरणेषु मध्ये इत्यर्थः । अलङ्कृतिव्यञ्जनस्थले सहृदयव्यङ्ग्यस्थले । रूप्यादीनां ङ्गिनां उपमेयवाच्यानां न तु प्राधान्यं मुख्यत्वमिति । अत एव एतेषां व्यङ्ग्यत्वमित्यर्थः ॥ हिममुक्तेति । हिममुक्ता विगता यस्मात् स इव रुचिर्यस्य तथोक्तः । वसन्तपक्षे—हिममुक्तचन्द्रवत् रुचिरं रोच्यमानः । पद्मं कमलं तदसहितः । पक्षे—सपद्मकः । ‘द्वयं तु विपुलं, नाभिरधः । जनितमीन- केतुः—उद्दीपितकाममित्यर्थः । प्रमादिनः प्रमत्तचित्तान् कुमुदं करोति यत् । पक्षे— प्रमादिनां विलासशीलानां धृतिमपहरन् । ननु तादृशः वसन्तकालः । विष्णोः विष्णुरूपस्य जनस्य वा माधवः । तथाहि—प्रमदाजनानां योषित्-