भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 176, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 176

चतुर्थः परिच्छेदः । २२१ अत्र माधवः कृष्णो माधवो वसन्त इवेत्युपमालंकारो व्यङ्ग्यः । एवं च व्यङ्ग्यभेदादेव व्यञ्जकानां काव्यानां भेदः । तदष्टादशधा ध्वनिः ॥ ९ ॥ अविवक्षितवाच्यः, अर्थान्तरसंक्रमितवाच्योऽत्यन्ततिरस्कृतवाच्यश्चेति द्विविधः । विवक्षितान्यपरवाच्यस्तु असंलक्ष्यक्रमव्यङ्ग्यत्वेनैकः । सल- क्ष्यक्रमव्यङ्ग्यत्वेन च शब्दार्थोभयशक्तिमूलतया पञ्चदशेत्यष्टादशभेदो ध्वनिः । एषु च— वाक्ये शब्दार्थशक्त्युत्थस्तदन्ये पदवाक्ययोः । तत्रार्थान्तरसंक्रमितवाच्यो ध्वनिः पदगतो यथा— 'धन्यः स एव तरुणो नयने तस्यैव नयने च । युवजनमोहनविद्या भवितव्य यस्य सम्मुखे सुमुखी ॥' व्यजने वसन्तस्यैव सम्बन्धिमलयप्रतिसन्धानसहकृतेन माधवपदेन वसन्त एव व्यज्यते न ततोऽन्तरम् । तस्य तत्र सामर्थ्याभावात् । न चात्र शब्दार्थोभयश्लेष- शब्देनोभयशक्तिव्यङ्गोपमेति वाच्यम् । तथा सति 'दुर्गालङ्गित-' (६३ पृ०) इत्याद्युभयश्लेषमत्त्वेनोभयशक्तिव्यङ्ग्यत्वं स्यात् । गृहीतपरिमलवैशिष्ट्यापि तत्र सत्त्वात् । ननूक्तभेदेषु व्यङ्ग्यस्य भेदो दर्शितः । तत्र प्रकृतानुपयुक्तमत आह— एवं चेति । तदिति । उक्तप्रकारैरित्यर्थः ॥ अष्टादशत्वमुपपादयति—अविव- क्षितेति ॥ वाक्ये एवैक एव । तदन्ये शब्दशक्त्युत्थेतरे ॥ धन्य इति ।

  1. उपमेति । ... ... मम—'राजोदविमलोद्गारी इत्यादि-५२५ ... ...
  2. पञ्चदशेति । ... ... भेदार्थेण महावाक्ये ॥
  3. तदन्ये इति । ... पदे वाक्ये च भवन्ती- त्यर्थः । ... ...
  4. ... ... ... ...
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक) · पृष्ठ 176, कुल 506 में से · BharatKosha