भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 186, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 186

चतुर्थः परिच्छेदः । ईतरस्य रसादेरङ्गं रसादिव्यङ्ग्यम् । यथा— 'अयं स रसनोत्कर्षी पीनस्तनविमर्दनः । नाभ्यूरुजघनस्पर्शी नीवीविस्रंसनः करः ॥' अत्र शृङ्गारः करुणस्याङ्गम् । 'मानोन्नतां प्रणयिनीमनुनेतुकाम- स्त्वत्सैन्यसागररवोद्गतकर्णतापः । हा हा कथं नु भवतो रिपुराजधानी- प्रासादसंततिषु तिष्ठति कामिलोकः ॥' इत्यनेन तस्य गुणीभूतव्यङ्ग्यस्य रसाङ्गं रसरूपव्यङ्ग्यम् । उदाहरति—अय- मिति । भूरिश्रवसः समरपतितं हस्तं विलोक्य तत्पत्न्या रोदनमिदम् । अयमी- दृगवस्थः स तत्तत्कर्मणि मुहरनुभूतः । तत्तत्कर्माह—रसनेति । रसनां मम क्षुद्रघण्टिकामुत्कर्षयितुं मार्जनादिना उत्कृष्टीकर्तुमाक्रष्टुं वा शीलमस्य सः । नीव्या वस्त्रबन्धस्य विस्रंसनो मोक्षणकरः । अत्रालम्बनविच्छेदेन रतेरसाध्यतया स्मर्यमाणानां तदङ्गानां शोकोद्दीपकतयाकरणानुकूलतेति शृङ्गारस्य करुणाङ्गत्वम् । अत एव प्राकरणिकत्वेन प्रधानस्य करुणस्य व्यञ्जकं वाक्यार्थमपेक्ष्य तदानीमप्राप्त- रसभावस्य शृङ्गारस्य न्यूनत्वमचमत्कारित्वम् । ननु तदानीं शृङ्गारस्य रसताप्राप्त्या कथमस्य रसाङ्गरसोदाहरणत्वं सङ्गच्छतामिति चेत्, न । तदानीं शृङ्गाररसस्य पूर्णरसत्वाभावेऽपि खण्डरसत्वस्य सत्त्वात् । तच्च दोषपरिच्छेदे निर्णयिष्यते । शृङ्गा- रस्य करुणविरुद्धत्वेऽपि स्मृतिविषयत्वेन गुणत्वमेव, न तु दोषत्वम् ॥ भावाङ्गं रसव्यङ्ग्यमुदाहरति—मानोन्नतामिति । राज्ञः स्तुतिरियम् । मानोन्नतामुन्नतमा-

  1. प्रासादेति । प्रासादा न्परीपु ॥ १ ग पुस्तके तु 'इतरस्य-' इत्यादि '—मानो... र्णनेनेन ?' इत्यन्तस्य ग्रन्थस्य स्थाने 'बहुधीदृष्टं मम धम्मिल्ल-' इत्याद्युदाहरणे विधिप्रपादनिषेधार्थानिषेधरूपोऽर्थो व्यज्यते । उद्यद्गतदृष्टिरूपस्य इत्यत्रापि विधिप्रयुक्तयैरेव निषेधरूपार्थः तात्पर्थम् । तन्मथ्यं पूर्वस्याभिप्रायमुज्झन्नपरस्तथात्वादुवाच- मिति । दृष्ट्वेने—मम धम्मिल्ल-' इत्यत्र सुरताद्योगादिति एव विश्रान्तिमासाद्य निषेधार्थो व्यज्यते । उद्यद्गतदृष्टिरूपस्य तु सुरतार्थस्य बाधितत्वेन मर्तनोद्देशार्थमेव विश्रान्तिभजमाना व्यञ्जकत्वाद् यथा चोक्तम्—'अनिष्टादन्यथा प्राप्ति-' (इत्यादि) व्याप्तिवैयर्थ्यम् । यद्यदर्थमसमुल्लङ्घ्य गति- र्भवतोत्येव यन्निषेधयुक्तप्रतियोगिकत्वेऽपि तत्रापि तद्देश्यता न वा तदित्युक्तश्च सन्निधा विधिरेव प्रतिपाद्यम् । ननु वाक्यान्त्या एव ध्वन्यधमकरणादर्भाने कथं तेषां पश्चाद्विद्यत इवेति चेदुच्य- ताम् । सत्यम् । पदपराम्भोभावकत्वेन तेषां पृथग्वारवृत्तिनाम् । पदशब्दानु—प्रकृतिः प्रत्ययः प्रातिपदिकं सर्वनाम च । युग्मपदद्वयः पूर्वनिपातच्छन्दिन न्यासाः कर्मकर्तृविवक्षां विशेषोल्लिङ्गादयः । पदस्यार्थे निमित्तद्य सपक्षो वचनं तथा । प्रत्ययोत्पन्नगतार्थ्या पदानां दर्शितानि ॥' तद्यथा चोक्तम्— • 'एकपदसंस्पर्शेना-' (इत्यादि) इति पाठो दृश्यते