साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 187, कुल 506 में से
संदर्भ में पढ़ें२३८ साहित्यदर्पणे अथ गुणीभूतव्यङ्ग्यम्— अपरं तु गुणीभूतव्यङ्ग्यं वाच्यादनुत्तमे व्यङ्ग्ये । अपरं काव्यम् । अनुत्तमत्वं न्यूनतया साम्येन च सम्भवति । तत्र स्यादितराङ्गं¹ काक्वाक्षिप्तं च वाच्यसिद्ध्यङ्गम्² ॥ १३ ॥ संदिग्व³प्राधान्यं तुल्य⁴प्राधान्यमस्फुटमगूढम्⁵ । व्यङ्ग्यमसुन्दरमेवं भेदास्तस्योदिता अष्टौ ॥ १४ ॥ भूतव्यङ्ग्यं निरूपयति—अथेति । अपरं ध्वनिभिन्नम् । तत्र गुणीभूतव्य- इतरस्य रसादेर्वा वाक्यार्थस्य वा अङ्गम् । रसादि अनुरणनरूपं वा व्यङ्ग्यं न्वयः । एवमन्यत्रापि । काक्वाक्षिप्तं काकुवशात् झटिति वाच्यवत्प्रतीयमानं वाच्यस्यान्वयबोधबीजं वाच्यसिद्ध्यङ्गम्, आपाततः प्रतीतस्य वाच्यस्य प्र- धानानुपपत्तिनिरासकम् । अस्फुटं सहृदयैरपि झटित्यप्रतीयमानम् । अ- स्फुटम्, तथा वाच्यायमानम् । असुन्दरं चमत्काराप्रत्यासन्नम् एव निरू- १. गुणीभूतेति । वाच्यापेक्षया अनमत्कारित्वेनेह व्यङ्ग्यस्य गुणीभावः । ध्वनि- णाप्यभिहितम्—‘प्रकारोऽन्यो गुणीभूतव्यङ्ग्यः काव्यस्य दृश्यते । यत्र व्यङ्ग्यान्वये व्यञ्चारुत्वं स्यात्प्रकर्षवत् ॥’ इति । ‘प्रतीयमानं पुनरन्यदेव वस्त्वस्ति वाणीषु महा- नाम् । यत्तत्प्रसिद्धावयवातिरिक्तं विभाति लावण्यमिवाङ्गनासु ॥’ इत्युक्तरूपो व्यङ्ग- यः प्रतिपादितस्तस्य प्राधान्ये ध्वनिरित्याख्यातम् । तस्यैव गुणीभावेन वाच्यार्थचारुत्वे गुणीभूतव्यङ्गयो नामापरः काव्यभेद इति तदाशयः ॥ २. काक्केति । काका हठेनोपस्थापितमिति वा ॥ ३. संदिग्धेति । सन्दिग्धं वाच्यकृतं व्यङ्ग्यकृतं वेत्यनिश्चितं प्राधान्यं यस्य य- ० । यद्वा सन्दिग्धं चमत्कारिजनने वाच्यव्यङ्ग्ययोः संशयास्पदं प्राधान्यं यत्र तत् ४. तुल्येति । तुल्यं वाच्यसमानं प्राधान्यं यत्र तत् । चमत्कारोत्पादने वाच्यव्य- योरपि क्षमत्वेन तुल्यत्वमवधेयम् ॥ ५. अगूढमिति । अगूढं चासहृदयैरपि वेद्यम् । तादृशं वाच्यायमानतया न तथा चमत्कारोति यथा कामिनीकुचकलशवद्गूढम् । तदुक्तम्—‘नान्ध्रीपयोधर इवातिवरा- प्रकाशो नो गुर्जरीस्तन इवातिवरा निगूढः । अर्थो गिरामपिहितः पिहितश्च कश्चित्सौभा- ग्यमेति मरहट्टवधूकूचाम ॥’ इति । एव च कामिनीकुचकलशन्यायेन सहृदयैकवेद्यमेव व्यङ्ग्यं ध्वनित्वमुपयाति । सहृदयैरपि दुःरसवेद्यमसहृदयैरपि वेद्यं वेत्युभयमपि गुणी- भूतव्यङ्ग्यमेवेति बोध्यम् । एवमन्येष्वपि भेदेष्वनुभव एव साक्षीति प्रदीपादौ व्यक्तम् ॥ १ 'अपराङ्गं' ग. २ 'सिद्धव्यङ्गन्यं' घ