भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 189, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 189

२९५ साहित्यदर्पणे 'तात्पर्यातिरेकाच्च व्यञ्जकत्वस्य न स्थितिः । यावत्कार्यप्रसारित्वात्तात्पर्यं न तुलाधृतम् ॥' इति, तन्मतेऽपि 'विस्मृतविभ्रमेणा'दिसम्यग्व्यङ्ग्याभावात्² इति बोद्धव्ये- रैवं पातनीयो दण्डः । पुनश्च किमिति लक्षणा पृथगुक्ता । दीर्घदीर्घतराभिधाव्यापारे- वाच्यस्य बाधविना झटित्यन्वयि बोधदर्शनाच्चेति भावः । तात्पर्येति । एतद्- द्योत्यस्यैव शब्दबोध्यत्वसम्भवे व्यङ्ग्यत्वं न सम्भवतीत्यभिप्रेत्य शङ्कते-नन्विति । तात्पर्येनैव व्यञ्जकतोपपत्तावित्याशयः । ननु तावत्पर्यन्तप्रसारि तात्पर्ये प्रमाणं किमस्ति ? आह-यावदिति । तात्पर्यं हि प्रमाणबलेन प्रतिपाद्यं यावता तुष्ट्यर्थं न सम्- प्रदानेनोपपत्त्या विरोधाभावादित्याशयः । तथा च यावदप्रमाणिकं प्रतिज्ञामात्रं परं कथं वाक्यप्रमाणमुपादत्त इत्याशयः प्रमाणान्तरं दूषयन्नाह-यावदिति । अत्रायं श्लोकार्थः-न केवलं तवायं दोषः स्वात्मानमपि दूषयन्ननुगच्छतीति । यद्यभिधेय- मिव काव्यव्यङ्ग्यमप्यर्थं तात्पर्यं बोधयति, तदा न केवलमभिधेयातिरिक्तव्यङ्ग्य- कभावः, किन्तु पदवाक्यबोधकत्वप्रयुक्तस्यापि भावस्य, नाम्याख्या- दयश्चेत्येवं मनोरथमात्रं स्यात् । नन्वेवं वस्तुमात्रस्य तद्बोधकत्वेनाभ्युपगमे काव्यत्वेनैव सर्व- न चान्यथैव शब्दार्थयोर्भावकत्वेन विशेषस्तत्प्रयुक्तं काव्यशब्देष्वभिधेय- भाव्यमिति वाच्यम् । नाटकादिकाव्यातिरिक्तयत्किञ्चिदङ्गानां चेष्टादिनाप्यर्थः प्रतीयते, सा चास्त्वेव र- स्तदन्वयव्यतिरेकान्वापद्येहाप्यनुगमनात् । तदुक्तम्- 'नानाभिनयसम्बद्धान् भावय- न्रसानिमान् । यस्मात्तस्माद्भावा इति संज्ञिताः' इति । कथं पुनरव्या- तमन्वेत्येव पदस्य व्यङ्ग्यत्वानुपपत्तिरिति चेन्न, गतादिना विचेष्टायुक्तरसीभव- 'त्यायविनाभूतचेष्टादिप्रतिपादकशब्दान्तरगतैरपि तैस्तैर्भावाद्यैरेव लक्षितेति रस- गीतिः ॥

  1. शब्देति । वाचकस्य लाक्षणिकस्य वा शब्दस्य अभिधया लक्षणया वा स्वार्थ- दुवोधमुत्पाद्य पुनरभिधया लक्षणया वावान्तरबोधन सामर्थ्याभावादित्यर्थः ॥
  2. किमितीति । यदि भवन्मते तादृशाभिधाव्यापारेण व्यङ्ग्यार्थोऽवबुध्यते, इत्येवं लक्षणा स्वीक्रियते । लक्षणाव्यापि तत्त्वालक्षणानिधाव्यापारेण बोधात् । एत- द्दृष्टार्थं मीमांसादर्शने भगवता जैमिनिना 'श्रुतिलिङ्गवाक्यप्रकरणस्थानसमाख्यानां सम- वाये पारदौर्बल्यमर्थविप्रकर्षात् ३।३।७' इति सूत्रेण श्रुत्यादिषु पूर्वपूर्ववलीयस्त्वं निरा- यितिमित्यस्य तु दृढत्वाद्यथा हि लिङ्गादिस्थलेऽपि शब्दश्रवणानन्तरं प्रतीयमानानामर्थानां दीर्घदीर्घतराभि- धाव्यापारेणैव प्रतीतो लिङ्गादीनां वाक्ये वीनाभावात् । निरपेक्षो रवः श्रुतिः । अर्थनिष्ठ- सामर्थ्यं लिङ्गम् । परस्परसाकाङ्क्षावशात्क्वचिदेकस्मिन्नर्थे पर्यवसितानि पद- १. 'इति नास्ति घ-पुस्तके २ 'विस्मृतव्यापारभावादिति' क.
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक) · पृष्ठ 189, कुल 506 में से · BharatKosha