भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 190, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 190

पञ्चमः परिच्छेदः । २५५ दर्थबोधसिद्धेः । किमिति च 'ब्राह्मण, पुत्रस्ते जातः । कन्या ते गर्भिणी' इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् । यत्पुनरुक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत् । ततश्च काव्यशब्दानां निर- तिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्र- एवं चेति । अभिधयैव व्यङ्ग्यबोधस्वीकारे चेत्यर्थः । तदर्थेति । लक्ष्यार्थे- ऽर्थः । लक्षणाजन्यबोधानन्तरमपि व्यङ्ग्यबोधायाभिधासत्त्वस्वीकारे लक्षणासत्त्व- स्वीकारस्याकिञ्चित्करत्वादिति भावः । लक्षणाया अस्वीकारे इष्टापत्तेर्दोषान्तरमाह— किमिति चेति । न वाच्यत्वमित्यन्वयः । कन्या अदत्तपुत्री । प्रतिपाद्यस्य मुख- प्रसादादिभिरनुमितानामपि हर्षशोकादीनां शब्दान्तरप्रतीतत्वेन वाच्यताप- त्तिरिति भावः । रसादीनां तात्पर्यग्राह्यत्वमनुमानेन साधयतां मतमाह—यत्पु- नरिति । पौरुषेयं पुरुषनिष्पन्नं लौकिकं मन्वादिशास्त्ररूपं च । अपौरुषेयं वेदस्वरूपम् । सर्वमेवेति व्यापकताग्रहाय । यद्युपादेयं वाक्यं तत्कार्यपरम् । यथा 'घटमानय' इति लौकिकं वाक्यं जलाहरणरूपकार्यतत्परम् । यथा वा 'विश्वजिता यजेत' इति वैदिकं वाक्यं सर्गरूपकार्यतत्परमित्यन्वयव्याप्तिरत्रावधेया । व्यतिरेक- व्याप्तिं दर्शयति—अतत्परत्वे इति । यन्न कार्यतत्परं तदनुपादेयमानम, यथा उन्मत्तादिवाक्यम्, इति । अनुमिति दर्शयति—ततश्चेति । प्रतिपाद्यस्य श्रोतुः काव्यश्रवणे प्रवृत्तिः, प्रतिपादकस्य वक्तुः काव्यपाठे प्रवृत्तिः, तयोरौप- यिकं कारणीभूतफलेच्छानिष्ठो यत्प्रयोजनान्तरं चतुर्वर्गादि, तस्यानुपलब्धेः शब्देनानुपस्थानात् । अवधार्यते तात्पर्येण प्रतिपाद्यते । ननु कार्यान्तरवद्रमादि- वाक्यम् । व्यङ्ग्यव्यङ्ग्यभावानां शब्दान्तरापेक्षाभावाच्छब्दान्तरेण संबन्ध आह-हर्षेत्यादिना प्रकरणम् । स्थानं क्रमः । न चान्तेऽस्यान्यस्य सन्निधिरेवेत्यसङ्गतम् । समाहारा- दोषात्तत् । इत्यादीनां समाहारे एकशब्देनार्थे तेषां मध्ये परोक्षेण परं व्यङ्गेनार्थ्यना तद्ग्रहीतम् । एत० । अर्थभेदपरं यूपर्यवेक्ष्या निर्विभागात्मताऽऽविर्भावितं व्यङ्ग्ध्यः । अत्र विशेषः शारदाभाष्यपरतयाऽवसेयः ॥ १. किमिति चेति । यथाऽस्य शब्दस्यायमेवार्थः प्रतीयते तद्वदिरुद्धाभिव्यञ्जक- व्यापार इति मीमांसकमतेन हर्षशोकादीनां किमिति न वाच्यत्वेनेव पूर्वोक्तान्वयः । ग- र्भिणी संकीर्णसम्भोगवतीत्यर्थे हर्षशोकादीनां वाच्यत्वमिति कारिकार्थे भावः । मुखने- त्रसंकोचोऽवाङ्मुखत्वात् शोकोत्पादकं वचनम्, न तु तच्छब्दोद्भवः । ना तु तच्छब्दैरेव हर्ष-शो- कप्रकाशनं विधायित्वेनानुभवव्यभिचारान्न इति हि सिद्धान्तः ॥ २. पानि । 'इन्दिरान्दिन्दिरेणाऽऽनुकूलतया प्रतिवेशं'

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक) · पृष्ठ 190, कुल 506 में से · BharatKosha