साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 198, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः। ३४३ यथा वेण्याम्—दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः—दुरात्मन्, र्धनहतक—' इत्यादि । संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम्—'राजा—प्रिये, 'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । ( आत्मानं निर्दिश्य । ) अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥' गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥ यथा तत्रैव— 'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि—' इत्यादि ( ११० पृ. ) । स लेशो भण्यते वाक्यं यत्साहश्यपुरःसरम् । यथा वेण्याम्—'राजा— हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥' मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥ यथा— 'रतिकेलिकल. किंचिदेष मन्मथमन्थर । पश्य मुग्धे समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥' विशेषार्थोहविस्तारोऽनुक्तसिद्धिरुदीर्यते ।
तादात्म्यजनितभ्रमात् । 'दुःश्रुत्सन्न' इति पाठे मादृशपादशुश्रूषणस्य अमनिपदसेवेत्यर्थः ॥ संक्षेपात् अचिरेणात् । अन्यार्थे अर्थान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय- मिति । अयमभिलषितेन दात्वा लभ्यो देति न विशेषकृपणम् । अतः एवार्थान्त- स्थाने आत्मनः प्रयोगः ॥ सादृश्यपुरःसरं सादृश्यप्रतिपादनम् ॥ गाङ्गेये भीष्मे । सैवेति तत्तुल्यं श्लाघ्या तद्वर्णनम् । दूतो यद्यपि छालेन भगवद्रूपं रूपं धृत्वा पाण्ड- वानामपि दातरस्मिन्वह्नेऽग्निनाऽप्यङ्गिभिर्हन्ते भविष्यतीति भावः ॥ उक्तिर्भ- ङ्ग्यन्तु । भङ्ग्यन्तरेण गूढार्थेनैव ॥ रतिकेलि इत्यपि न० । यथा मुग्धे जैपिति पाठः । समालम्भादङ्गरागात् । कादम्बः हंसः । अत्र प्रियायै दातव्यस्य प्रियचुम्बनं दर्शयित्वा नाटकेन स्वस्य प्रियचुम्बनमभिप्राय- मुक्तिः ॥ विशेपेति । रसातपत्रादिपदार्थेषु विशेषे तस्य प्रयोजने चेदित्यर्थः । १ '...' २ '...' ३ '...'