साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 200, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः । ३४३ यथा वेण्याम्-दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः-दुरात्मन् धनहतक-' इत्यादि । संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम्-'राजा-प्रिये, 'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । (आत्मानं निर्दिश्य ।) अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥' गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥ यथा तत्रैव- 'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यर्थि-' इत्यादि ( ११० पृ. ) । स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् । यथा वेण्याम्-'राजा- हते जराति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥' मनोरथस्त्वभिप्रायस्योक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥ यथा- 'रतिकेलिकलं किंचिदेष मन्मथमन्थरः । पश्य सुभ्रु समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥' विशेषार्थोहि विस्तारोऽनुक्तसिद्धिर्दुदीर्यते । दृष्टजनितभ्रमात् । 'अनुभूतस्य' इति पाठे साह्लादमनुभूतस्य अनर्थापदस्त्वेत्यर्थः ॥ संक्षेपात् अविशेषात् । अन्यार्थे वर्ण्यान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय- मिति । अत्राप्यविलिखेनेन आत्मा अन्यो वेति न विशेषस्तन्नम् । अत एवार्थान्तर- स्थाने अन्यस्य प्रयोगः ॥ सादृश्यपुरःसरं सादृश्यतात्पर्यकम् ॥ गाङ्गेये भीष्मे । सैवेति तत्तुल्यश्लाघ्यता तात्पर्यम् । यथा वृद्धस्य छलेन वधाह्रद्युक्ता तथा बला- न्वतपि बालस्यैकान्तेऽस्मिन्मर्मभेदुनिर्दन्ते भविष्यतीति भावः ॥ उक्तिर्भ- ङ्ग्यन्तरेण सादृश्यप्रकारिणा ॥ रतिकेलिं वदन्ती स । गङ्गा रवै नेतिञ्जलं पश्य न । समालम्भादङ्गरुचिस्पृष्टम् । कादम्बः कलहंसः । अद्य प्रियार्थे कदम्बस्य प्रियाचुम्बनं वर्णयता नायकेन स्वस्य प्रियाचुम्बननिद्राजः सूचितः ॥ विशेषेति । स्वसत्त्वप्रसिद्धपदार्थं विशेषं तस्य प्रयोजनं निर्दिशन् । १. 'अन्विष्येद्' क० २ 'सम्बन्धः' घ ३ 'विशेषार्थेऽप्यनुक्ते' इत्येवं दृश्यते.