साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 204, कुल 506 में से
संदर्भ में पढ़ें... यथा वेण्याम्—दुर्योधनभ्रान्त्या भीमं प्रति 'युधिष्ठिरः—दुरात्मन्, वनेहतक—' इत्यादि । संक्षेपो यत्तु संक्षेपादात्मान्यार्थे प्रयुज्यते । यथा मम चन्द्रकलायाम्—'राजा—प्रिये, 'अङ्गानि खेदयसि किं शिरीषकुसुमपरिपेलवानि मुधा । ( आत्मानं निर्दिश्य । ) अयमीहितकुसुमानां संपादयिता तवास्ति दासजनः ॥' गुणानां कीर्तनं यत्तु तदेव गुणकीर्तनम् ॥ १९२ ॥ यथा तत्रैव— 'नेत्रे खञ्जनगञ्जने सरसिजप्रत्यार्थि—' इत्यादि ( ११० पृ. ) । स लेशो भण्यते वाक्यं यत्सादृश्यपुरःसरम् । यथा वेण्याम्—'राजा— हते जरति गाङ्गेये पुरस्कृत्य शिखण्डिनम् । या श्लाघा पाण्डुपुत्राणां सैवास्माकं भविष्यति ॥' मनोरथस्त्वभिप्रायोक्तिर्भङ्ग्यन्तरेण यत् ॥ १९३ ॥ यथा— 'रतिकेलिकल. किंचिदेष मन्मथमन्थर. । पश्य लुञ्च समालम्भात्कादम्बश्चुम्बति प्रियाम् ॥' विशेपार्थोऽहविस्तारोऽनुक्तसिद्धिरुदीर्यते । तादृशजनितभ्रमात् । 'अनुभूतस्य' इति पाठे सादृश्यादनुभूतस्य भ्रमानिवर्त्तकस्येत्यर्थः ॥ संक्षेपात् सविशेषात् । अन्यार्थे वर्णान्तरस्थाने । प्रयुज्यते निर्दिश्यते ॥ अय- मिति । अत्राप्यमिलनेन आत्मा अन्यो वेति न विशेषोपपन्नम् । अत एवार्थान्तर- स्थाने आत्मन प्रयोग ॥ सादृश्यपुरःसरं सादृश्यतापर्यन्तम् । गाङ्गेये भीष्मे । सैवेति तत्तुत्यभावतया तात्पर्यम् । यथा वृद्धस्य हतेन पाण्डववृद्धा हता अन्य- स्यापि यादृशंस्थानविभक्तिभेदंयुक्तनिमित्तेन भविष्यतीति भावः ॥ उक्तिर्भ- ङ्ग्यन् । भङ्ग्यन्तरेण प्रकारान्तरेण ॥ रतिकेलि दम्पतिति । अज्ञा स्त्री- ...केलिलक्षकम् । समालम्भादाच्छादितत्वात् । कादम्बः हंसः । अत्र प्रियार्थ लम्पटस्य प्रियसन्दर्भं वर्णयता नृपेण तस्य प्रियचुम्बनप्रिया- सूचित् । विशेपेति । रूपलावण्यादिव्यञ्जनं विशेषः तस्मै प्रयोजनं विशेषः । १. 'शिखिनिम्' पाठः २. 'मन्मथमन्मथः' पाठः ३. 'सौगन्धिकान्ना' द्वापातः.