साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 205, कुल 506 में से
संदर्भ में पढ़ें३४२ साहित्यदर्पणे यथा वेण्याम्—द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति यन्नं कर्णं प्रति 'राजा—साधु अङ्गराज, साधु। कथमन्धथा दत्त्वाभयं सोऽतिरथ्यो वध्यमानं किरीटिना। सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्धथा॥' दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत्। यथा तत्रैव—कर्णं प्रति 'अश्वत्थामा— निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सप्रत्येव भयाद्विहाय समरं प्राप्तोऽस्मि किं त्वं यथा। जातोऽहं स्तुतिवंशकीर्तनविदा किं सारथीनां कुले क्षुद्रारातिकृताप्रीय प्रतिकरोम्यस्रेण नास्रेण यत्॥' अभ्यर्थनापरैर्वाक्यैः पृच्छाऽर्थान्वेषणं मता॥ १९०॥ यथा तत्रैव—'सुन्दरकः—अज्जा, अवि णाम सारसिद्ध दिट्ठो तुम्हेहि महाराओ दुर्योधणो ण वेत्ति।' सिद्धिर्लोकसिद्धार्थैरुत्कृष्टैरर्थसाधनम्। यथा विक्रमोर्वश्याम्—'राजा— सूर्याचन्द्रमसौ यस्य मातामहपितामहौ। स्वयं कृत पतिर्द्वाभ्यामुर्वश्या च भुवा च यः॥' सारूप्यमनुरूपस्य मारूप्यात्क्षोभवर्धनम्॥ १९१॥ अर्थापत्तिरिति॥ अङ्गराज इति कर्णसंबोधनम्। कथमन्धथेति। मया वक्तव्यम्। इति शेषः॥ स द्रोणः। सिन्धुराजं जयद्रथम्। एवं पुत्राभि- प्रायः। अन्यथा प्रकारान्तरेण। अत्र सिन्धुराजोपेक्षारूपार्थान्तरेण द्रोणस्य पुत्राभिषेकाभिप्रायः प्रतीयते॥ दूषणोद्धोषणायामिति कृतावानिति मे अभ्यर्थनापरैः सविनयैः॥ अज्जा इति। 'आर्याः, अपि नाम सारसिद्धौ दृष्टो युष्माभिर्महाराजो दुर्योधनो न वेति'। इति संस्कृतम्॥ लोकसिद्धैः लोकख्यातनस्तुभिः। अर्थसाधनं पदार्थपरिचयः॥ सूर्याचन्द्रमसाविति अत्र सूर्यादिभिः प्रसिद्धार्थः पुरुूरवसः परिचयः॥ अनुरूपस्य सदृशस्य
- स्तुतिवंशेति। स्तुतिप्रशंसा कीर्तनं विदन्ति ये तेषां सारथीनां कुले
- अस्रेणेति। अस्रेण नयनजलेन॥ १ 'पतिर्वृतः' इत्यन्यत्र. २ 'अर्थेन च'