भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 218, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 218

षष्ठः परिच्छेदः । ३७९ कथांशानां व्यवच्छेद आश्वास इति बध्यते । आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ ३३५ ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । यथा—हर्षचरितादिः । 'अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात् ।' इति दण्डाचार्यव- चनात्केचित् 'आख्यायिका नायकेनैव निबद्धव्या' इत्याहुः, तदयुक्तम्। आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैव— 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः ।' इति । एषामुदाहरणम्—पञ्चतन्त्रादि । अथ गद्यपद्यमयानि— गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥ ३३६ ॥ यथा—देशराजचरितम् । गद्यपद्यमयी राजस्तुतिर्बिरुदमुच्यते । यथा—बिरुदमणिमाला । करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ॥ ३३७ ॥ यथा मम—प्रौढगणपतिप्रशस्तिरत्नावली । च्छित्तिम् ॥ दण्डाचार्यवचनादिति हेतुः 'तदयुक्तम्' इत्यत्रान्वेति । एषा- मस्य विवरणम् ॥ गद्यपद्यानीति गद्यपद्यमयानीत्यर्थः । भेदाः अन्तरम- भिधेयाः । उद्देशक्रमाद्बिरुदं लक्षयितुं गद्यपद्यमयीत्याह । तथा च केवलपद्यनि- र्भितम्, न तु गद्यनिर्मितमपि ॥ इति दर्पणरसास्वादसंज्ञिकायां साहित्यदर्पणटीकायां षष्ठः परिच्छेदः ।

  1. चण्डीदासेनेति । साम्प्रतिकैर्निरूप्यते
  2. दृष्टेनेति । दृश्यते चेदमपरत्राप्यनुभूयत एवेत्यर्थः । मन्त्रादीनां तु काव्यादि- व्यतिरिक्तत्वेनैवाकाव्यत्वं साधूक्तम् । अत एवेतिहासपुराणादौ काव्यशब्दानु- पपत्तिरिति ।
  3. यथेति । दृश्यते चेदमपरत्रापि