साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 219, कुल 506 में से
संदर्भ में पढ़ें३८० साहित्यदर्पणे अस्यार्थः प्रागेव स्फुटीकृतः । तद्विशेषानाह— ते पुनः पञ्चधा मताः । पदे तदंशे वाक्येऽर्थे संभवन्ति रसेऽपि यत् ॥ १ ॥ स्पष्टम् । तत्र दुःश्रवत्रिविधाश्लीलाऽनुचितार्थाप्रयुक्ताः । ग्राम्याप्रतीतसंदिग्धनेयार्थानिहतार्थताः ॥ २ ॥ अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता । अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ३ ॥ दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे । निरर्थकाममर्थत्वे च्युतसंस्कारता तथा ॥ ४ ॥ परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । यथा— 'कार्तान्त्ये यातु तन्वङ्गी कदानङ्गमवंवदा ॥' अस्यार्थ इति । प्रागेव प्रथमपरिच्छेदे एव । श्रुतिदुष्टादेः शब्दार्थोभयधर्मत्वेऽपि रसापकर्षत्वमिति नाव्याप्तिरिति भावः ॥ तद्विशेषान् दोषविभागान् । ते दोषाः तदंशे पदांशे ॥ दोषविशेषान्निर्दिशति—दुःश्रव इति । अयं भावप्रत्ययेन निर्देशः । दुःश्रवत्रिविधाश्लीलेति समस्तपाठे भावप्रत्ययस्य सर्वत्रान्वयात् पृथग्दोषेषु ॥ उद्देशक्रमेण दुःश्रवत्वादिलक्षणं सोदाहरणमाह—परुषेति । केषां- चित्स्पष्टत्वाद्बुदाहरणस्यैव दर्शनम् । 'श्रुतिपतितमात्रं यद्वैषम्यमवदति तत्तद् दुःश्रवं सर्वथा हेयमिति प्रथमं तदुपन्यासः' इत्यन्ये । परुषवर्णता वर्णानां पारुष्यं पुनरुपरिष्टा- र्गोर्भाविष्यति । श्रोतॄणां श्रोत्रावच्छेदेन दुःखजनकत्वं श्रुतिदुःखावहम् । श्रुति- रित महद् यावद् श्रुतिदुःखावहम्, तत्त्वं वा । कार्तान्त्यमिति । अत्र तस्य रेफयोर्योर्गेन पारुष्यम् । तत्प्रयुक्तं पदस्य दुःश्रवत्वं साश्रयपदमपनीयमाने प्र- मत्तस्य शृङ्गारमयस्य प्रकर्षप्रतीतिं प्रतिबध्नाति । इदमेव 'श्रुतिकटु' इत्यभिधीयते नन्वेतनपदानपारुष्यमेव न तु पदपारुष्यमिति चेन् । न । यावद्वटपटशिरोमणिका-
- कार्तान्त्यमिति । 'अनङ्गमङ्गद्गृहापाङ्गभङ्गिरङ्गिभिः । आलिङ्गितः स दयितां कार्तान्त्यं लभते कदा ॥' इति प्रकाशोदाहरणानुरूपम् ॥ १. 'भवन्' घ-पुस्तके नास्ति. २. 'प्राप्यः क. ३. 'दारम्' ङ-सु-ग-प.