साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 220, कुल 506 में से
संदर्भ में पढ़ेंसप्तमः परिच्छेदः । ३८१ अश्लीलत्वं व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात्त्रिविधम् । क्रमेणोदाहरणम्— 'दसारिविजये राजन्साधनं सुमहत्तव ॥' 'प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा ॥' अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः । 'शूरा अमरता यान्ति पशुभूता रणाध्वरे ॥ अत्र पशुपदं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । पारम्पर्यप्रयुक्तवाच्येषु धवलवतदघटकद्वित्रादिवर्णपारम्पर्यप्रयुक्तपदेषु भयतन्य नी- वारात् । असंख्यार्थान्तरव्यञ्जकमश्लीलं तस्य भावनता । पदगतश्लीलत्वं तु असमर्थस्मृतिहेतुत्वमेव । जुगुप्सा घृणा । अमङ्गलममङ्गलशङ्का । व्यञ्ज- कमिह जनकत्वमेव ॥ अत्रेति । सैन्ये प्रयुक्त साधनशब्दो मेढ्रव्यञ्जनतया श्रोतुर्लज्जाजननेन राजविषयरतिभावस्य, समीरणे प्रयुक्तो वायुशब्दः पशुपानुप- ङ्गकतया श्रोतुर्जुगुप्साजननेन, अदर्शने प्रयुक्तो विनाशशब्दश्च मृत्युव्यञ्जनतया अमङ्गलशङ्काजननेन, शृङ्गारस्य प्रकर्षप्रतिबन्धक ॥ अनुचितार्थत्वं ह्यतिदा- र्ढ्यार्थदोषप्रतिपादकत्वेन, ह्यतिदार्ढ्यासम्भवेन, ह्यतिदार्ढ्यानर्थक्येन । तत्रोदाहर— शूरा इति । पशुभूताश्चेत्यस्वरूपा । अत्र वाच्यार्थस्य शूरस्य व्यङ्ग्यो दोष । १. अश्लीलममिति । व्रीडा लज्जाप्रदार्थोपस्थित्यादि नास्तीति । 'उभयोद्भयम्...' इति च । तद्भिन्नम् । दर्शितोदाहरणे यत् ॥ २. अत्रेति । 'साधन'पद का धोती/उपस्थीति दूषण स्वीकार्य्यम् । हे राजनू! त्रिप- क्षिणां तुभ्यम् यत् सैन्यं तदप्युत्कृष्टं यद् द्विषतामथ प्रतिभटवर्गाणां जयसिद्धये न हेतुः सुतरां सैन्यविशेषतः सिद्धम् । अतः 'साधन' शब्दस्य यत् सैन्यपरकत्वेऽप्युक्तं तस्य यदि लिङ्गार्थकत्वेनापि विपरिणामः स्यात् । तथा'तन्वि—तव वायुः'इत्यादावपि वायुपदस्य वाते प्रयुक्तस्यापि गुदजवातेऽर्थे पर्यवसानं स्याद् इति । 'सुतरां पृष्ठाभिघातकेन स्पर्शेन यः समीरः प्रससार' स चेदपशब्दाद् अमङ्गलं स्यात् । 'विनाश'शब्दाद् अप- मृत्युप्रतीतिरपि सम्भवति तस्माद् दुष्टमेवेत्याहुः एतेषां शब्दानां वाचकत्वे सत्यपि यन्म- लिनोऽर्थो बोध्यते तदेव दूषणम् । अतो जुगुप्साव्यञ्जकम् इति चेद् व्रीडा-व्यञ्जकत्व- दर्शनाद् अमङ्गलव्यञ्जकत्वं स्यात् । ३. पशुपदमिति । 'पशुभूता' इति शब्देन यद्भवत्सु भीतिर् उत्पन्ना साऽप- राधाय, पराक्रमाय न सम्पत्स्यते इत्यर्थः । 'पशुभूताः शूरा अमरतां यान्ति' इति श्लोकार्थे भीतौ सत्यामपि अमरत्वम् उपदिश्यते न तु शूरत्वम् अतोऽनुचितार्थत्वम् । यतो हि अमरत्वस्यावश्यम्भावेऽपि भीतत्वे सति शूरत्वं न सम्भवतीत्यतोऽनुचितत्वं पशुपदे दोषः ।