साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 222, कुल 506 में से
संदर्भ में पढ़ेंसप्तमः परिच्छेदः । ३८१ 'आशीःपरम्परां वन्द्यां कर्णे कृत्वा कृपां कुरु ॥' अत्र वेन्द्यामिति किं बन्दीभूतायामुत वन्दनीयायामिति संदेहः । नेयार्थत्वं रूढिप्रयोजनाभावादशक्तिकृतं लक्ष्यार्थप्रकाशनम् । यथा— 'कमले चरणाघातं मुखं सुमुखि तेऽकरोत् । अत्र चरणाघातेन निर्जितत्वं लक्ष्यम् । लेपादिनार्थजनयः शब्दः संदिग्धः । आशीरिति । कर्णे कृत्वा श्रुत्वा । राजेति । शामिति पदस्य संदिग्धतय शाब्दबोधविलम्बेन राजविषयाशीर्वादाबोधस्यानिवृ- कृत् ॥ अशक्तिकृतं कवेरसामर्थ्यप्रयुक्तम् । असंभवन्मन्त्रानुवदति ॥ चर- घातेन चरणापातपदेन निर्जितत्वं पराभवः । मुखस्य चरणप्रसरणादावसं- भाव्यसंभव इत्यन्वयानुपपत्तिः । वैवमप्यचरणाघातपराभवः स्वपादहतिराग- खवत्वं मुखकमलयोः संबन्धः । अत्र रूढिप्रयोजनव्यतिरिक्तपदेन गृहीत- विनिश्चयः ततो दृष्ट्योपस्थितिः ततः शाब्ददोष इति दृष्टिवैशिष्ट्यं शब्दार्थविशे- षस्यानुपरताधीयम् । केचित्तु—'विशिष्टशक्तिग्रहस्य प्रयोजनैर्विशिष्टलक्ष्ये ऽनेयार्थम्' इति चेत् । न । रूढिप्रयोजनाभावपरस्य मुख्येऽर्थेऽन्वयानुपपत्ति- रूपपरतया प्रकृते तत एव नेयार्थत्वान्तरत्वात् । केचित्—'पद्धतिर्भिन्नैव स्याद् भवेद् यतितं न तु चरणाघातेनेति तन्निर्जितत्वस्यानुपपन्नत्वान्न' इत्याहुः । तन्न । तत्र हि लक्षणाजन्यबोधानन्तरं तादृशप्रतीतिरित्युन्नीयते, न तु निर्जितत्वादिरूपैव प्रतीतिः । तच्चार्थाभावात्, इत्यलक्ष्यं स्पष्टीकृतत्वाभावश्च । यत्तु सत्कविप्रसिद्धिरुन्नीयते इत्याहुः, तन्मन्दैरेवोपपादितत्वात् । दुपपत्तिः । १. आशीःपरम्परामिति पाठान्तरम् । २. वन्द्यामिति पाठान्तरम् । ३. गदाधरेण 'कमलेऽकरोन्मुखं' इति पाठान्तरम् । ४. गदाधरेण 'न तु चरणाघातेनेति निर्जितत्वस्याप्रतीतेः' इति पाठान्तरम् दृश्यते ।
- वन्द्यामिति । बन्दीं कृत्वा राज्ञां सभायां स्तुतिपाठकत्वेन स्थापितां स्तुती रागादिश्रवणेन संपाद्य तां वन्द्यां नृपाशीर्वादरूपां स्तुतिं श्रुत्वा स्वस्मिन् संपादितायाः स्तुतेः श्रवणेन सन्तुष्टो राजा वन्दीभूतां मुक्त्यर्थं प्रार्थयते सा किम् ? उत बन्दनयोग्यां सतीं नृपाशीर्वादरूपां स्तुतिं श्रुत्वा सन्तुष्टः सन् कृपां कुर्यादिति संशयः ।
- नेयार्थत्वमिति । यत्र लक्षणाबीजस्य रूढिप्रयोजनान्यतरस्याभावेऽपि शक्तिभ्रमात् प्रयुक्तेन पदेन लक्ष्यार्थबोधः क्रियते तन्नेयार्थम् । यथाऽत्र चरणाघातरूपमुख्यार्थ- संबन्धेन चरणप्रसरणादावेव चरणस्याघातासंभवात् तिरस्कारात्मकेऽर्थे चरणाघात-