साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 241, कुल 506 में से
संदर्भ में पढ़ें५१२ साहित्यदर्पणे 'प्रकृतिप्रत्ययौ स्वस्वार्थबोधकौ' इति च मतद्वयेऽपि वत्यादिक्यङाद्योः साम्यमेवेति । यच्च केचिदाहुः—'वत्यादय इवार्थेऽनुशिष्यन्ते, क्यङा- दयस्त्वाचाराद्यर्थे' इति । तदपि न । न खलु क्यङादय आचारमात्रार्थाः, अपि तु सादृश्याचारार्था इति । तदेवं धर्मलोपे दशप्रकारा लुप्ता । उपमानानुपादाने द्विधा वाक्यसमासयोः । उदाहरणम्— 'तस्या मुखेन सदृशं रम्यं नास्ते न वा नयनतुल्यम् ।' दितं प्रकृतिप्रत्ययसमुदायं, वाचकं प्रकृत्यर्थविशिष्टप्रत्ययार्थप्रतिपादकम् । स्वस्वार्थबोधकौ क्रमेण स्वार्थप्रतिपादकौ । वत्यादीति । आदिपदेन कल्पादि- परिग्रहः । साम्यमेवेति । सादृश्यवाचकत्वेन साम्यमित्यर्थः । आचाराद्यर्थ इति । 'अनुशिष्यन्ते' इत्यन्वयः । अपि त्विति । किंत्वित्यर्थः । 'अपि तर्हि' इति पाठे किं तर्हीत्यर्थे । उपसंहरति—तदेवमिति । वस्तुतस्तु 'चन्द्रायते शुक्लरुचापि हंस' इत्यादौ साधारणधर्मोपादानेऽपि क्यङादियोगे उपमादर्शना- दार्थ्या उपमायास्तद्धितादित्रितयगतत्ववत् क्यजादिपञ्चकगतत्वेन विशेषो बोध्यः । एवं चाष्टप्रकाराया आर्थ्या धर्मलोपालोपाभ्यां षोडशप्रकारत्वं बोध्यम् । क्यजादि- पञ्चके धर्मलोपे उदाहरणं यथा—'वीरः प्रीतिकरत्वेन पर्यङ्कीयति मञ्चके । मित्री- यति परं प्रेम्णा भक्त्या देवायते नृणाम् ॥ देवदर्शं जने साधु प्रतीक्ष्यत्वेन दृश्यते । कृपया विष्णुसञ्चारं नित्यं सचरति क्षितौ ॥' अत्र तृतीयान्तपदार्थानां क्यजाद्यर्थे सादृश्येऽभेदेनान्वयः ॥ उपमानलुप्तामुपमामाह—उपमानेति । 'लुप्तो- पमा' इत्यनुषङ्गः ॥ न वेति । न वा नयनतुल्यरम्यमास्त इत्यन्वयः । अन्यथा त्वनिष्टमेव । अन्यथा उपास्यते हरः, अनुभूयते सुखम्, इत्यादौ धात्वर्थात्मनभवनक्रि- ययोरकर्मकत्वेन कर्मत्वारोपपत्तिर्न स्यात् । इवादीनां तु वाचकत्वमेव । उपमेयमानगता- यामिवेदादिवाचकतायाः प्रतिबन्धकराहित्येन दृष्टान्तवैषम्यस्य सद्भावाद् विशेष्यविशेष्ययो- रेकविभक्तित्वे 'विशेष्येण सहेकार्थं भवेद्यत्र विशेषणम् । तत्र लिङ्गादयः प्रायो विशे- ष्याद्वा विशेषणे ॥' इत्यनुशासनस्येवोपमानोपमेययोरपि तत्र 'लिङ्गसंख्याविभेदेऽपि उप- मानोपमेयता । विभक्तिः पुनरेकैव उपमानोपमेययोः ॥' इत्यनुशासनस्य जागरूकत्वेन 'शरैरुस्रैः-' इत्यादावुपमानपदोत्तरतृतीयादेः सुसंपादकत्वाच्च । प्रायोग्रहणेन 'दिगन्ते श्रूयन्ते मदमलिनगण्डाः करटिनः करिण्यः कारुण्यात्पदम्—' इत्यादि विशेष्यविशेष्ययो- र्लिङ्गादिभेदेऽपि न काचिदनुपपत्तिरित्यन्यत्र विस्तरः ॥ १. क्यङादय इति । अयमभिप्रायः—'कर्त्तुः क्यङ् सलोपश्च' इत्यत्र 'उपमानादाचारे' इत्यत उपमानपदममुवर्त्तते, तेनेवार्थमात्राद्वाऽपि बोधे सादृश्याचाराद्यर्थः क्यङिति । १. 'स्वार्थबोधकौ' क. २. 'षोडशप्रकारा बोद्ध्या' इति मुद्रितपुस्तके.