भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 242, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 242

दशमः परिच्छेदः । ५१३ अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः। अत्रैव च ‘मुखेन सदृशं’ इत्यत्र ‘मुखं यथेदं’, ‘नयनतुल्यं’ इत्यत्र ‘दृगिव’ इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विधत्वसम्भवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् । औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ २० ॥ क्रमेणोदाहरणम्— ‘वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।’ ‘गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।’ अत्र ‘गर्दभति’ इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपमेयस्यापि लोपः । ‘निनदन्’ इत्यनेनैव निर्देशात् । द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः । ‘तस्या मुखेन’ इत्यादौ ‘रम्यं’ इति स्थाने ‘लोके’ इति पाठेऽनयो- रुदाहरणम् । क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ २१ ॥ धर्मोपमानलोपोदाहरणमिदं स्यात् । प्रतिनिधीति । सदृशेत्यर्थः ॥ द्व्यर्थमुप- माह—औपम्येति । यत्र वाशब्दादिक्विबलोपे विद्येते तत्र पूर्वोक्तद्वैविध्य- मुत्क्षिप्यते ॥ वदनमिति । उपमानोपमेयौ धर्मः दत्तः इति बहुव्रीहिसमासेन । इवार्थस्य समासगम्यतया इवपदाप्रयोगः । यद्यप्यत्र सादृश्यवाचिपदस्य इतीदं षडुपमागतविलोपोदाहरणम् । सुधाकर इव मनोहरमिति ‘उपमानानि सामान्यव- चनैः’ इति कर्मधारयः । एतदेव प्रत्युदाहरणम् । क्विपि उदाहरणम्—गर्द- भतीति । गर्दभ इवाचरतीत्यर्थे क्विपि द्वितीयान्तात्क्विप् । यद्यप्यत्र ‘सर्वप्रातिप- दिकाद्वै क्विपो लोपेऽपि कर्तुरस्य दृश्यस्य तत्त्वेऽपि सादृश्यवाचिपदोपादानस्यानु- गन्तव्यम् । अत्र श्रुतिपरुषनिनदः सादृश्यधर्मः श्रुतिपरुष एव । निर्देशोदिति । उपमेयस्येत्यनेनेत्यन्वयः ॥ एवमेवोपलक्षणमुक्त्वा द्वितीयप्रकारमाह—द्विधेत्यादि

  1. सुधाकरेति । ‘उपमानं सामान्यवचनैः’ इति सूत्रेणेह समासोऽत्र सादृश्यवाचिपद- इत्यनेन नायं पूर्वोपमासमासेन भवति इति पूर्वोक्तं व्याख्यातम्—इत्याशङ्क्य सा- दर्शितदिनेतरस्य समासोऽभ्युपेतो न त्वयमिति द्रष्टव्यम्, किन्तु साधर्म्यवाचकपदेन पृथक्समासप्रयोगः कृतो नान्येन सह समासविधानस्य कुत्राप्यदर्शनात्—
  2. गर्दभतीति । ‘सर्वप्रातिपदिकात् क्विब्वा वक्तव्यः’ (वार्तिकम्—३।१।११) इति सूत्रम् ? इति क्वब्विधानेनात्राप्यौपम्यवाचिनः क्विबः लोप इति भावः । इत्यनेनोपमेयनिर्देशोऽवसितव्यः ।