साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 246, कुल 506 में से
संदर्भ में पढ़ेंदशमः परिच्छेदः । ५२७ इदं मम । अत्र केषांचिद्रूपकाणां शब्दश्लेषमूलत्वेऽपि रूपकविशे- षत्वादर्थालंकारमध्ये गणनम् । एवं वक्ष्यमाणालंकारेषु बोध्यम् । अधिकारूढवैशिष्ट्यं रूपकं यत्तदेव तत् । तदेवाऽधिकारूढवैशिष्ट्यं³संज्ञकम् । यथा मम— 'इदं वक्त्रं साक्षाद्विरहितकलङ्कः शशधरः सुधाधाराधारश्चिरपरिणतं बिम्बमधरः । इमे नेत्रे रात्रिंदिवमधिकशोभे कुवलये तनुर्लावण्यानां जलधिरवगाहे सुखतरः ॥' अत्र कलङ्कराहित्यादिनाधिकं वैशिष्ट्यम् । विषयात्मतयारोप्ये प्रकृतार्थोपयोगिनि ॥ ३४ ॥ दारिद्र्यं चित्रम्, द्युन्नितिराकाशकुड्यम् । सरलता कौटिल्यराहित्यमेव दाक्षि- ण्यम् । तस्या योगे श्वपुच्छच्छटा कुक्कुरलाङ्गुलकुण्डली । भक्तिमात्रसुलभे केवल- मपि भक्त्या प्राप्ये ॥ अत्र केषांचिदिति । नाधनस्य श्लेषस्य शब्दालंकारत्वेऽपि साध्यत्वेन प्रधानस्यार्थालंकारमध्ये गणनमिति भावः । वक्ष्यमाणानां श्लेषापह्रवादी- नाम् ॥ अधिकारूटवैशिष्ट्य रूपकमाह—अधिकारूढेति । अधिकमल्पर्थमाहूडं वैशिष्ट्यं विशेषणं यत्र तदित्यर्थ ॥ सुधाधारावार इति बिम्बस्य विशेषणम् । कलङ्क- रहितत्वादिविशेषणं चन्द्रादेरत्यन्तासंभवीति तत्र तदारोपणादधिकारूढवैशिष्ट्यम् । 'कलङ्कराहित्यादिना' इत्यनेदे तृतीया । परिणामालंकारमाह—विषयात्मतयेति ।
- वैशिष्ट्यमिति । अत्रेदमप्यनुसंधेयम्—‘विषय्यभेदताद्रूप्यरूप्यं विषयस्य यत् । रूपकं तद्विधाऽऽधिष्ठ्यन्यूनत्वानुभयोक्तिभिः ॥ (१) अयं हि धूर्जटिः साक्षाद् येन दग्धाः पुरः क्षणात् । (२) अयमास्ते विना शम्भुन्तार्तीयीकं विलोचनम् ॥ (३) शत्रुम्विध्वंसयत्येष सीत्यस्य समदृष्टिनाम् । (४) अन्या मुखेन्दुना लब्धे नेत्रानेन्दे मिनि- न्दुना ॥ (५) साक्ष्वीदमपरा लक्ष्मीस्तस्थानागारोद्धिता । (६) अयं मञ्जिन- ङ्गान्तान्मुखचन्द्रोऽतिरिच्यते ॥’ इति । इतोपमेयस्य रात्रौ विषयस्य पूर्णशुभ्रत्वविशेषणेन तस्मिनुपमानस्य भावतो धूर्जटिविषयिणोऽभेदकत्वात्, उपमानस्योर्मेदे ग्युनाधिक- भावावर्णनाच्च प्रथममुभयाभेदरूपकम् ॥ तार्तीयीकविलोचनानोत्या न्यूनता- पटनेन द्वितीयं न्यूनभेदिरूपकम् । ‘तीयादीरहुः सार्थे वाच्यः’ इति वात्र्त्तेन तृती- यार्थे ईयक् ॥ समदृष्टिनासीत्यनेन निश्वावनेक्त्या भावतो राजन्यादिन्दतान्तस्तृतीय- मधिकामेदरूपकम् । अत्र समदृष्टिददं शिष्टम् ॥ एवमन्या मुखेन्दुमन्ये प्रमिद्धेन्दोरना- दक्षकत्वमापाद्य मुखेन्दोश्च नेश्रानन्दजनकत्वरूप प्रसिद्धेन्दुर्वाधर्मत्वमात्राभिकरगेन न्यूनवाधिकत्वयोरेकपादानादनुभयताद्रूप्यरूपकं चतुर्थम् ॥ अपरान्या लक्ष्मीनान- १ 'इदं मम' इति क-ख पुस्तकयोर्नास्ति २ 'अत्र च' घ. ३ 'संज्ञकरूपकं' घ ४ 'तथा' इति क्वचित् पुस्तके.