साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 264, कुल 506 में से
संदर्भ में पढ़ेंभूमिका। ९ तापतिरुचे । पुरा पुत्रीयन्ती सरस्वती तुषारगिरौ (तपस्यामास) प्रीतेन मनसा तां विरिञ्चः प्रोवाच-पुत्रं ते सृजामि । अथैषा काव्यपुरुषं सुषुवे । सोऽभ्युत्थाय नपादोपग्रहं छन्दस्वतीं वाचमुदचीचरत् । यदेतद्वाङ्मयं विश्वमर्थमूर्त्या विवर्तते । सोऽस्मि काव्यपुमानम्ब पादौ वन्देय तावकौ ॥ तामाम्नायदृष्टचरीमुपलभ्य भाषाविषये छन्दोमुद्रां देवीं ससंमदमङ्कपर्यङ्केनादाय तमुदलापयत् । वत्स, सच्छन्दस्काया गिरः प्रणेतः, वाङ्मयमातरमपि मातरं मां विजयसे । प्रशस्यतमं चेदमुदाहरन्ति यदुत 'पुत्रात्पराजयो द्वितीयं पुत्रजन्म' इति । वृत्तं पूर्वे हि विद्वांसो गद्यं ददृशुर्न पद्यम् । तदुपक्रमथातश्छन्दस्खद्वचः प्रवर्त्स्यति । अहो श्लाघनीयोऽसि । शब्दार्थौ ते शरीरम् संस्कृतं मुखम्, प्राकृतं बाहुः, जघनमपभ्रंशः पैशाचं पादौ, उरो मिश्रम् । समः प्रसन्नो मधुर उदार ओजस्वी चासि । उक्तिचणं च ते वचः, रस आत्मा रोमाणि छन्दांसि, प्रश्नोत्तर- प्रवह्लिकादिकं च वाक्केलिः, अनुप्रासोपमादयश्च त्वामलंकुर्वन्ति । भविष्यतोऽर्थ- स्याभिधात्री श्रुतिरपि भवन्तमभिष्टौति- चत्वारि शृङ्गा त्रयो अस्य पादा द्वे शीर्षे सप्त हस्तासो अस्य । त्रिधा बद्धो वृषभो रोरवीति महो देवो मर्त्याँ आ विवेश ॥ (ऋ. सं. ३ अष्ट. ८ अ. १० व.) 'तथापि संशृणु प्रगल्भस्य पुंसः कर्म, बालोचितं चेष्टस्व' इति निगद्य निवेश्य चैनमनोवाहाद्रयिणि गण्डशैलतलनल्पे स्नातुमभ्रगङ्गां जगाम । तावच्च कुशान् समिधश्च समाहर्तुं नि स्सतो महामुनिरुशनाः परिवृत्ते पूषण्युष्मोपप्लुतं तमद्राक्षीत् । कस्यायमनाथो बाल इति चिन्तयन् स्वाश्रमपदमनैषीत् । क्षणादाश्वस्तश्च स सारस्वतेयस्तस्मै छन्दस्वतीं वाचं समचारयत् । अक्लाद्विस्मापयन् स चा- न्युवाच- या दुग्धापि न दुग्धेव कविदोग्धृभिरन्वहम् । हृदिनः संनिधत्तां सा सूक्तिधेनुः सरस्वती ॥ इति । तत्पूर्वकमध्येतृणां च सुमेधस्त्वमादिदेश । ततः प्रभृति तमुशनसं मन्तं कवि- रित्याचक्षते । तदुपचाराच्च कवयः कवय इति लोकयात्रा कविशब्दश्च 'कवृ वर्ण' इत्यस्य धातोः काव्यकर्मणो रूपम् । काव्यैकरूपत्वाच्च सारस्वतेयोऽपि काव्य- पुरुष इति भक्त्या प्रयुज्यते । ततश्च विनिवृत्तः वाग्देवी तत्र पुत्रमपश्यन्ती महोत्सङ्गदयं चक्रन्द । प्रसङ्गतश्च वाल्मीकिर्मुनिर्वृत्तं सप्रश्रयं तदुदन्तमुदाहृत्य भगवत्यै द्युसूतैराश्रमपदमदर्शयत् । सापि प्रस्रुतपयोधरा पुत्राद्वाङ्गालंगं ददाना शिरसि च चुम्बन्ती स्वस्तिमन्ता चेतसा प्राचेतसायापि महर्षये निभृतं सच्छन्दांसि वचांसि प्रायच्छत् । अनुप्रेषितश्च स तया निषादनिहतसहचरीकं क्रौञ्चयुवानं च्छान्दो- कार्यानिशं क्रन्दन्तमुदीक्ष्य शोकाद्वाञ्छ्लोकमनुजगाद-