साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 275, कुल 506 में से
संदर्भ में पढ़ेंर्थात् ३१००—४८७=२६१३ कलिगतम् । एष च—'यदुदुम्बरवर्णानां मण्डलं महत् । पीतं न गमयेत्स्वर्गं तत्किं क्रतुगतं नयेत् ॥' इत्येवमुक्तवान् शायाम्—'प्रमत्तगीत एष तत्रभवतो यस्त्वप्रमत्तगीतस्तत्प्रमाणम्' इत्येवं म[हा-] भाष्यकारेण प्रत्युच्यते । यद्युक्तो बुद्धनिर्वाणकालः सर्ववादिसंमत- तीर्थंकर-महावीरसत्ताकालो व्यक्त एव, यतो वीरनिर्वाणसंवत्-५२७ ऊर्ध्वम् अर्थात् कलिगतम् २५७३। 'चन्द्रगुप्तसभा' इति प्रत्युदाहरणं तु सा[रा-] महाभाष्ये काशिकायामपि न दृश्यते, केवलं सिद्धान्तकौमुद्याम् । चन्द्रगुप्तसंव[न्धि-] तया संभाव्यमानः पुष्यमित्रो वर्तमाने लड्सूत्रभाष्ये—'इह पुष्यमित्रं याजया[मः]' ( ३।२।१२३ ) इत्येवं स्पृष्टोऽपि कुशकाशावलम्बनायितः । नहि देवदत्तेन्द्रक[र्ण-] न्द्रपालितप्रायैरुदाहरणे ( ८।२।८३ ) केचन नियता व्यक्तिविशेषा भाष्यकारानि- मता भवितुमर्हा इति दिक् ।
अथ किंचिद्दर्शनान्तरमुपक्षिप्य भूयः प्रकृतप्रघट्टकफलं दर्शयिष्यते । दर्शनेषु योगितया प्रतियोगितया वा परस्परस्य परस्परं प्रवेशो लक्ष्यते । सोऽयं शब्दतो ऽर्थत इति यथोत्तर भूयान् प्रेक्षाविषयः । तद्बीजं तु—'कालः स्वभावो नियति[र्य-] दृच्छाभूतानि योनि —' पृ. ८) इत्येवं जातीया भगवती श्रुतिरेव । नह्येष[ा] श्रुतिरुपालभ्या, तदनुवर्तिप्रमातृणां प्रवृत्तिर्वा, यदेष प्रमेयस्य प्राकृतिको दोष[ः] स्वभावो वा यथायं विचार सहते, तयागत्या तार्किकैर्नायत इति । अत्रेयं स्थूला पर्यालोचनम्—
वैशेषिकं न्यायश्चेति द्वये दर्शने समानतन्त्रे तत्र औलूकापरनाम्ना महामुनि[ना] कणादेन विशेषं पञ्चमं पदार्थभेदमधिकृत्य कृतो ग्रन्थो वैशेषिकम् । विशेषस्य साधर्म्येनेतरेभ्यो व्यावर्तनाय प्रभवतीति वैशेषिकस्तत्प्रमाता । तथाचोक्तं मौलिक[स्य] दर्शने माधवाचार्य—'द्वित्वे च पाकजोत्पत्तौ विभागे च विभागजे । यस्य न स्खलिता बुद्धिस्तं वै वैशेषिक विदुः ॥' इह भूतात्मपुरस्कारेण पदार्थानां साधर्म्य- वैधर्माभ्यां तत्त्वज्ञानानि श्रेयसपर्यायन्निणी परमात्मचिन्ता । अत्र दश अध्यायाः । प्रत्यध्यायं द्वे आह्निके । सर्वसूत्राणि ३६६। इदं न्यायदर्शनात प्राचीनं तत्रेयं तुलना-
वैशेषिकम्. | न्यायद. इच्छाद्वेषप्रयत्न सुखदुःखज्ञानान्यात्मनो लि- | इच्छाद्वेषप्रयत्नसुखदुःखज्ञानान्या- ङ्गम् ३।२।४ ।। विद्याविद्यातश्च संशयः २।२।२३ ।। | त्मनो लिङ्गम् १।१।१० ।। नियतं वार्दानिश्चयात् संशय ४।३।८ ।।
... 'अप्रसिद्धोऽनपदेश— ( ३।१।१५-१७) इत्यादिना च त्रिधा...त्रय एव हेत्वाभासा उपदिष्टाः । न्याये तु-'सव्यभि[चार]'