साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 28, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । ५९ देवस्य गउडवहो (गौढवधम्) । आख्यानग्रन्थाः । (१) दण्डिनो दशकुमारचरितम् । (२) सुबन्धोर्वासवदत्ता । (३-४) बाणभट्टस्य हर्षचरित-कादम्बर्यौ । (५) विष्णुशर्मणः पञ्चतन्त्रम् । (६) नारा- यणस्य हितोपदेशः । चम्पूग्रन्थाः । (१) यमुनात्रिविक्रमस्य दमयन्तीकथा । (२) भोजदेवस्य रामायणचम्पूः । (३) अनन्तस्य भारतचम्पू । नाटकग्रन्थाः । (१-३) कालिदासस्य अभिज्ञानशाकुन्तल-विक्रमोर्वशीय-मालविकाग्नि- मित्राणि । (४-६) श्रीहर्षस्य रत्नावली-प्रियदर्शिका-नागानन्दानि । (७-९) भवभूतेर्महावीरचरित-मालतीमाधवोत्तररामचरितानि । (१०-१२) राजशेखरस्य बालरामायण-विद्धशालभञ्जिका-कर्पूरमञ्जर्य । (१३) भट्टनारायणस्य वेणीसंहारम् । (१४) मुरारेरनर्घराघवम् । (१५) विशाखदत्तस्य मुद्राराक्षसम् । (१६) श्रीकृष्ण- मिश्रस्य प्रबोधचन्द्रोदयम् । एतेष्वनेकान्काव्यसाहित्यग्रन्थान्काव्यमालामुपङ्गादुद्धरद्भिरस्मत्तातपादानां सुहृ- द्भिर्महामहोपाध्यायश्रीदुर्गाप्रसादपण्डितरत्नः काव्यसंसारः साधूपकृत इति ॥ ५। साहित्यदर्पणस्य च किमितिवृत्तम् ? अयं दर्पणो यावदुपयुक्तकाव्यशिक्षा- धायकत्वात् साहित्यशास्त्रमिति व्यपदिश्यताम् । यदयं न सरस्वतीकण्ठाभरणवद् ध्वनतिप्रयोजनीयविषयविस्तीर्णो नवीनविचारविकलश्च, न काव्यप्रदीपवद् रूपक- प्रकरणरहितोऽतिस्थगितप्रमेयश्च, न साहित्यसारवद् विषयसङ्कलनैकतात्पर्यो दुरूहवचश्च । एकदेशीयैः सह तु तुलनावकाश एवास्य नास्ति । सोऽयं कारिका- वृत्त्युदाहृतिभिखिधा विभज्यते । तत्र कारिका वृत्तयश्च स्वकीया एव, उदाहृतयस्तु क्वचिदेव स्वकीयाः । प्रमेयाणामुपपादनशैली प्रायेण सर्वत्र प्राञ्जलैव, यत्र क्वापि महाराजाधिराजविक्रमादित्येनाज्ञाप्तः कालिदासमहाशयः सेतुबन्धं चिकीर्षुः' इत्यनेन कालिदासस्य सेतुबन्धकर्तृत्वं व्यलिखत् । तत्र तादृशसम्बन्धदर्शने मूलं मृग्यम् । विक्रमकालिदासयोः सम्बन्धस्तु न विरुध्यते तयोरनेकत्वात् । वाकाटकवंशे गृहीतजन्मनोः ख्रिस्ताब्दस्य चतुर्थ-पञ्चमशतकयोर्वर्तमानयोः प्रवरसेनभूपुजोः सेतुबन्धकर्तृत्वं तु दण्डिनः स्थितिकालासन्ने पतति । यतो दण्डी काव्यादर्शे सेतुबन्धं स्मरतीति दिक्. १. गौडवधे का(क)न्यकुब्जाधिपतेर्यशोवर्मणो महिमा प्राकृतैर्गद्यैः प्रख्या वाक्पतिराजे- नार्वाणि अत्र १२०९ गाथाः । रामाभ्युदयादिनाटकचयिता अयमेव यशोवर्मा कालगत्या काश्मीराधिपतिना ललितादित्येन पराजितः । 'कविर्वाक्पतिराजश्रीमव- भूत्यादिसेवितः । जितो ययौ यशोवर्मा तद्गुणस्तुतिवन्दिताम् ॥' इति राजतरङ्गिणी ४।१४४) । अस्य समयः ख्रिस्ताब्दीयसप्तमशतकोत्तरार्धम्.