साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 27, कुल 506 में से
संदर्भ में पढ़ें५८ साहित्यदर्पणे मिश्रस्य अलंकारशेखरः । (५) जैनस्य आचार्यहेमचन्द्रस्य सोपज्ञालंकार- चूडामणिवृत्तिसहितं काव्यानुशासनम् । (६) जैनस्य वाग्भटस्य काव्यानु- शासनम् । (७) जैनस्य वाग्भटस्य वाग्भटालंकारः । (८) दाक्षिणात्यस्य अच्युतराजस्य खोपज्ञसरसामोदसहितः साहित्यसारः । (९) दाक्षिणात्यस्य कृष्णकवेर्मन्दारमरन्दः । रूपकप्रकरणानि । धनंजयस्य दशरूपकं धनिककृतालोकसवलितम् । भारतीयस्य नाट्यशास्त्रस्य अष्टादश एकोनविंशो विंशश्चतुस्त्रिंशश्चाध्यायाः । अनेके रूपकग्रन्थाः सर्वतन्त्र- स्वतन्त्रस्य राघवभट्टपादस्य अभिज्ञानशाकुन्तलार्थद्योतनिकातोऽवधेया इति । अथ प्रसङ्गात्साहित्यस्य लक्ष्यभूताः प्राच्योदीच्यप्रतीच्यदाक्षिणात्याः कवीन्द्रा कविकर्मणः श्रव्यदृश्यग्रन्था निरूप्यन्ते— तत्र काव्यग्रन्थाः । (१-३) कालिदासस्य रघुवंश-कुमारसम्भव-मेघदूतानि । (४) छत्र-भारवेः किरातार्जुनीयम् । (५) घण्टा-माघस्य शिशुपालवधम् । (६) श्रीहर्षस्य नैषधीयचरितम् । (काव्यशास्त्रम् ) (७) काश्मीरकस्य तालरत्नाकरस्य हरवि- जयम् । (८) काश्मीरकस्य विह्लणस्य विक्रमाङ्कदेवचरितम् । (९) काश्मीरकस्य जगद्धरस्य स्तुतिकुसुमाञ्जलिः । (१०) शालिवाहनस्य गाथासप्तशती (गाहा- सत्तसई) । (११) प्रवरसेनस्य सेतुबन्धम् (दहमुहवहो) । (१२) वाक्पति- १. काव्यानुशासनं काव्यप्रकाशानुसारि । वाग्भटीयं काव्यानुशासनं तु प्राचीन- शैलीकम्. २. एते हालसाहिवै. समुद्रिते दशरूपकपुस्तके संक्षेपिताः. ३. दक्षिणा- पथे गोदावरीतीरे कुन्तलेषु प्रतिष्ठानं नाम नगरमासीत् । यत्स्वामी हालसात- वाहनादिनामा शकप्रवर्तकः शालिवाहनः । येन च गाथासप्तशती संकलिता । इयं बाणस्य हर्षचरिते कोषतया नुता । गोवर्धनाचार्यस्य आर्यासप्तशत्या—'वाणी प्राकृतसमुचितरसा बलेनैव सरङ्ग नीता । निर्गतान्तरूपनीरा कलिन्दकन्येव गगनतलन् ॥' इत्येवं स्मृता । सरस्वतीकण्ठाभरणे तु द्वितीयपरिच्छेदे 'केऽभूवन्नाढ्यराज्यस्य राज्ये प्राकृतभाषिणः । काले श्रीसाहसाङ्कस्य के न सस्कृतभाषिण ॥' इत्युक्तम् । तत्र आढ्यराजः शालिवाहनः; साहसाङ्को विक्रमादित्य इति तट्टीकाकृतो रत्नेश्वरमिश्राः । शालिवाहनस्यैव सभायां भूतभाषामयवृहत्कथानिर्मातृ-गुणाढ्य-कालापव्याकरणकर्तृ- शर्ववर्मप्रभृतयो महाविद्वास आसन् । अतः शकप्रवृत्तेरासन्नकाले गाथासप्तशती- संकलनकालो भवितुमर्हतीति दिक्. ४. राजतरङ्गिणीगणनया एकः प्रवरसेनः ३१८४ कलिगतेऽभूत् । अस्यैव पौत्रो द्वितीयः प्रवरसेनः । एतत्समये उज्जयिन्यां ० ना विक्रमादित्योऽप्यभूत् । उक्तप्रवरसेनयोरन्यतरेण सेतुबन्धापरनामधेयं ० प्रणीतं स्यात् । अकब्बरजहाल्तीन्द्र (अबुलमुजफ्फरजलालुद्दीनमहम्मद ) सचिवो रामदासभूपतिस्तत् स्वकृतसेतुबन्धटीकाप्रारम्भे—'महाराजप्रवरसेनेननिमित्तं