साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 30, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । ६१
विश्वनाथस्य नाम सान्धिविग्रहिक-महापात्र-कविराजेत्युपाधिभिर्घटितं दृश्यते । अत्र सान्धिविग्रहिक इति राज्याधिकारविशेषः । तदानीं विद्याप्रणयिनां कलिङ्ग- वासिनां राज्याधिकारे विश्वनाथस्य पूर्वपुरुषास्तदनुबन्धिनः श्रीधर-राघ- वानन्द-कृष्णानन्दप्रभृतयश्चासन् । अत एतन्नामापि सान्धिविग्रहिक-महापात्र- विशेषणाभ्यां भूषितम् । अत्र श्रीधर-राघवानन्दौ काव्यप्रकाशस्य टीका- कृतावपि । कृष्णानन्दस्तु वैदर्भीरीतिप्रधानस्य सहृदयानन्दाख्यस्य नलचरित- महाकाव्यस्य रचयिता । राघवानन्दनाम दर्पणस्य प्रथमपरिच्छेदे; सहृदयानन्दस्य सूचीमुखेन-'इति पद्यं सप्तमपरिच्छेदे वर्तते । सान्धिविग्रहिक इति संधिविग्रहा- द्येष्ठन् । 'तत्र नियुक्तः-' (पा० सू० ४।४।६९) इति ठक् । एष उपाधी राजतरङ्गिण्यादौ प्रसिद्धः । महापात्रो ब्राह्मणविशेष इति केचित्, सङ्गेत्यपरे । वस्तु महामात्र इति सम्भावनीयम् । कविराज इति महाकविसमानार्थकम् । नतु अवध(अयोध्या)प्रान्तीयप्रधानहिंदीभाषायां 'भाट' इति प्रसिद्धब्राह्मणजातेर्- वाचकम् । श्रीनारायणचरणारविन्देत्यादि तु आस्तिकादिप्रदर्शनार्थम् । काव्यप्रकाशदर्पणे तु '...संगीतविद्याविद्याधर कलाविद्यामालीमधुकर-विविध- विद्यागंडवण्डधार...'इति विश्वनाथस्य त्रीणि विशेषणान्यधिकानि । वस्तुतोऽयं महाकुलप्रसूतो बहुज्ञः सहृदयश्चेति । एतत्प्रणीतग्रन्थास्त्वेते ज्ञायन्ते-(१) राघवविलासमहाकाव्यम् (२) कुवलयाश्वचरितप्राकृतमहाकाव्यम् (३) चन्द्रकला नाटिका (४) प्रभावती नाटिका (५) षोडशभाषामयी प्रशस्तिरत्नावली (एतेषां निर्माणोत्तरं) (६) साहित्यदर्पण (७) नरसिंहविजयम् (८) काव्यप्रकाशदर्पणः । एतत्पितुश्चन्द्रशेखरस्य पुष्पमाला नाटिका, भाषार्णव इति ग्रन्थद्वयी दर्पणतो ज्ञायते । तत्र— 'भाषामध्यमपात्राणां नाटकोंक्तौ विशेषतः । महाराष्ट्री सौरसेनीत्युक्ता भाषा द्विधा बुधैः ॥ हीनैर्भाष्या विभाषा स्यात्सा च सप्तविधा स्मृता । प्राच्यावन्ती मागधी च शाकारी च तथापरा ॥ चाण्डाली शाबरी चापि तथाऽऽभीरीति भेदतः ।' इति पद्यद्वयम् अस्मत्तत्त्वाख्य शैलेन भाषार्णवादवगम्यते । प्रशस्ति- रत्नावलीतः 'प्रौढाश्च मदनिकाया जगज्जैत्र' इति मूलश्लोकेऽस्तिह्यदः । विश्वनाथपूर्वपुरुषाणां हस्त्यारोहसम्बन्धः स्पष्ट एव । किञ्च । "'हस्त्यारुचित्' इति पदयोर्हरीत्येवं इति काव्यप्रकाशप्रतीकमुपादाय संदर्भ्येते 'हस्तीन्द्रे हस्तिहस्त' इति घटः । अत्र त्रिषु-पदं हस्तीन्द्रनियतस्यार्हस्तोतिपाशन्, तद्धनयोपपद्या 'हस्त्यारचित' इत्यादि इति हेमाद्रि कृतटीकेरीत्यारोति अयं राज्ञः । आहुश्च वैदर्भीरीतिषु क्लिष्टार्थत्वपरुषत्वप्रसादाभावे दुर्बोधे ह० भू० ६