साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 31, कुल 506 में से
संदर्भ में पढ़ें७० साहित्यदर्पणे 'धन्वन्तरिः क्षपणकोऽमरसिंहशङ्कु- वेतालभट्ट-घटखर्पर-कालिदासाः । ख्यातो वराहमिहिरो नृपतेः सभायां रत्नानि वै वररुचिर्नव विक्रमस्य ॥' इत्येवमादिश्लोकाः परीक्षापेक्षा । अत्रेयं भ्रान्तिदिक्—वराहमिहिरो हि 'सप्ताश्विवेदसंख्य शककाल-(४२७)' इति स्वसमयं निर्दिदेश । तेन गमयो व्यभिचरितो द्रष्टव्य । कालकलनानादरे तु— 'भासो रामिल-सौमिलौ वररुचिः श्रीसाहसाङ्कः कवि- र्माघो भारवि-कालिदास-तरलाः स्कन्धः सुवन्धुश्च यः दण्डी बाणदिवाकरौ गणपतिः कान्तश्च रत्नाकरः सिद्धा यस्य सरस्वती भगवती के तस्य सर्वेऽप्यमी ॥' इत्येवमादिश्लोका अदुष्टा इत्यलम् । दण्डी । अयमाचार्यदण्डी कवि कुत्र कदा बभूवेति विज्ञानं दु शकम् । दण्डीति ना चतुर्थाश्रमिनमेन मन्यन्ते कतिपये । कतिपये पुनः काव्यादर्शे वैदर्भीरीतेर्भ प्राशस्त्याद् विदर्भजनपद्यं दाक्षिणात्य कीर्तयन्ते । अथ— 'त्रयोऽग्नयस्त्रयो वेदास्त्रयो देवास्त्रयो गुणाः । त्रयो दण्डिप्रबन्धाश्च त्रिषु लोकेषु विश्रुताः ॥' इति सूक्तिमुक्तावल्यां धृत-राजशेखरमहाकविश्लोकाद्दण्डिनो ग्रन्थत्रयस्त्वं सुपरिज्ञातम् । तत्र काव्यादर्श-दशकुमारचरिते तावदतिरोहिते । तृतीयो ग्रन्थः क इति गवेषणायाम्— 'छन्दोविचित्या सकलस्तत्प्रपञ्चो निरूपित' इति काव्यादर्शो- 'छन्दोविचितिरिव माहिनीमनाथा' इति सौवन्धवीयवासवदत्ताश्लेषेण 'छन्दो- विचितिग्रन्थविशेषः' इति त्रिपाठीशिवरामप्रणीतया टीकया च छन्दोविचिति- रेवेति । केचित्तुच्छन्दोविचितिशब्द यौगिक मन्यन्ते । तथाच विचिति. प्रस्तार इत्यर्थः सम्पद्यते । अन्ये तु तृतीयं ग्रन्थं कलापरिच्छेदं कल्पयन्ते । मल्लिकामारुतनिर्माणम- प्यस्याहुरिति केचित् ख्यापयंति । दण्डिन समयस्तु प्रवरसेनादवस्ताद् रुद्राटाच्च मन्यते ॥ धनिकः । --- दशरूपकव्याख्येयावलोके दर्शिता, दशरूपक तु विष्णुसूनुजन्मना रचितं कृतम्, ननु विष्णुसुतधनञ्जयस्य ग्रन्थम् । धनञ्जय — . . . . . . . . . . । . . . . . . । राजदेवो दण्डी . . . . . . . । हम्मीर—नु १२७७ ख्रिष्टाब्दे न ष्टम् ।