भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 32, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 32

भूमिका। ७१ विष्णोः सुतेनापि धनञ्जयेन विद्वन्मनोरागनिबन्धहेतुः । आविष्कृतं मुञ्चमहीशगोष्ठीवैदग्ध्यभाजा दशरूपमेतत् ॥' इत्यनेनात्मानं वाक्पतिराजदेवापरनाम्नो मुञ्चभूमूजः सभानामाचष्ट । स च खृ० ९९४ ख्रिष्टाब्दे सासीदिति सुभाषितावलग्रन्थेतो ज्ञायते । अयमेव कालो निकस्यापि भवितुं युक्तः । धनिकेन काव्यनिर्णयोऽपि निरमायीति ध्वन्यालो- क्तो व्यक्तम् ॥ नखकुट्टः । सोऽयं वर्द्धतनिर्मितो निबन्ध इति नाद्यावधि ज्ञायते । एतन्मतं तु दर्पणस्य तृ०परिच्छेदे 'नेपथ्योक्तं श्रुतं तत्र' इत्याद्युक्तम् ॥ पुरुषोत्तमः । द्वौ पुरुषोत्तमौ ज्ञायेते । एकस्त्रिकाण्डशेषकर्ता, अन्यो विष्णुभक्तिकल्पत- लारचयिता । तत्राद्यस्य त्रिकाण्डशेषसमाप्तौ पुरुषोत्तमदेव इति नाम, द्वितीयस्य तु पुरुषोत्तम इति । परन्त्वस्यापि पद्यरचनायां पुरुषोत्तम इत्येव नामधेयं दृश्यते । तथाहि त्रिकाण्डशेषप्रारम्भे 'एष प्रयत्नः पुरुषोत्तमस्य' इति । हारावलीप्रारम्भे 'हारावली विरचिता पुरुषोत्तमेन' इति च । अतो द्वयोरैक्यता सम्भवति । यद्यप्येदं दर्पणस्य नवमपरिच्छेदे 'पुरुषोत्तमस्त्वाह' इत्यारिना स्मृतस्तर्हि दर्पणकारसम- लिकस्तस्य ग्रन्थमपश्यदथैतस्य पुरुषोत्तमता दर्पणतः प्राग्विद्यमानाऽभूदिति वि- भावनीया ॥ भरतः । एतद्रचितमेव नाट्यशास्त्रं लोके प्रसिद्धम् । एतस्य द्वितृपुरुषत्वं सूक्तिनिरूपणेना- वामभिहितम् । एतदादिभरतनामकमपि नाट्यशास्त्रमभिनवगुप्ताचार्येणोल्लिखित- मित्यापि ज्ञायते । तत्र भरतः, आदिभरत इति द्वेधा भेदो बहुषु दृश्यते । भरतस्य सादिभरतः पूर्वाचाय्यो भवेत् । यतश्च साहित्याचार्यैर्भरतमत- समानान्तराद्यपि परिगृहीतम् । भरतस्य नाट्यशास्त्रस्योपरि अभिनव- भारतीति नाम्न्या व्याख्याऽभिनवगुप्ताचार्येण विनिर्मिता ॥ भर्तृहरिः । भर्तृहरि—वाक्यपदीयं नाम व्याकरणशास्त्रप्रदीपं (प्रबन्धं )— तथा सुभाषितत्रयनामानं च ग्रन्थद्वयं रचितवानिति सुविदितं वि- दुषां पुरतः । ग्रन्थान्तरेऽपि भर्तृहरिप्रणीते सम्भवतः । प्राचीनटीकाकृतां पद्योद्धरणैरपि ज्ञायते भर्तृहरिग्रन्थान्तराणि, पूर्वापरस्थितिं कल्पयि- त्वेवं सम्भाव्यते यतो हि—कैय्यटो भर्तृहरिमहाभाष्यटीकामुपादाय ग्रन्थ- मारचयत् । एतावता भर्तृहरेर्महाभाष्यटीकाऽपि सम्भवतः कैय्यटीयाद् च त्रिगुणिता विस्तीर्णाऽऽसीत् । वाक्यपदीये च व्याकरणविषयकेऽनेकविधो ग्रन्थः । भर्तृहरिनाम्ना ( ख्रिष्टाब्दस्य ६५० तमे वर्षे सङ्ग्रहीतम् )