भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 33, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 33

७२ साहित्यदर्पणे व्याख्यानानि। तत्र हेतवस्त्व इत्यनुसन्धेयम् । श्लोकानि तु सपरपर्यायोपलक्षित- नीति ग्रन्थान्तर्गताद्योद्धार्य्यन्ते । दुश्चरित्रविभागादनेन भर्तृहरिणा राजलक्ष्मीं विहाय वैराग्यमाश्रितमिति निराय प्रथितः । तत्र—"यां चिन्तयामि सततं मयि सा विरक्ता, सा चान्यमिच्छति जनं, स जनोऽन्यसक्तः । अस्मत्कृते च परितुष्यति काचिदन्या, धिक् तां च, तं च मदनं च, इमां च, मां च ॥" इत्येतत् तदीयं पद्यं लिङ्गम् । इदं-राज्ञो राज्ञ्याम्, राज्ञ्याः पुरपाले, पुरपालस्य अन्यत्त्राङ्गेति गमयतीति किंवदन्ती । अयमेव भर्तृहरिहरिहरगेयोपाख्याननिर्माय भर्तृहरिनिर्वैद- स्यनाटकस्य कथानायको विभाज्यते । तत्र राज्ञी भानुमती विशुद्धचरितैव, नदृष्टेयं किंवदन्तीगन्धोऽपि । राज्ञो योगि-गोरक्षतो दीक्षाग्रहणं चेति दिक् ॥

भोजदेवः । सरस्वतीकण्ठाभरणादिनानाविधसद्ग्रन्थरचयिता कृतिकल्पद्रुमकल्पतरुर्धारानगराधी- नायो भूपालरत्नं भोजदेवो विक्रमार्कसंवत् १०७८ आसीत्, तदेतदधो निर्दिष्टेनैनद्- दानपत्राद्व्यक्तम् । रुद्रटस्य काव्यालङ्कारात्परस्मिन् मम्मटस्य काव्यप्रकाशात् पूर्वस्मिन् काले सरस्व- तीकण्ठाभरणमालङ्कारिकाणां वस्तुतः कण्ठाभरणमेवाभूत् । तत एवास्य बहवो विषया उदाहृतयश्चालङ्कारग्रन्थेष्वदृता लभ्यन्ते । अस्य च पञ्च परिच्छेदाः । तत्र प्रथमे परिच्छेदे विस्तरतो दोषगुणविवेचनम् । द्वितीये बाह्यसञ्ज्ञाः शब्दालङ्काराः, तृतीये आभ्यन्तरसञ्ज्ञा अर्थालङ्काराः, चतुर्थे बाह्याभ्यन्तरसञ्ज्ञा उभयालङ्कारा विवि- चिताः । पञ्चमे तु प्राचीनरीत्या रसादिवर्णिता । यद्यप्यत्र मौलिकविषयाणां न चान्तरभेदा नातिप्रयोजनीयास्तथाप्यनेके पदार्था उदाहरणश्लोकाश्च साहित्यमाध्य- कालिकविवेकादर्शभूता अवश्यं पर्यालोचनीयाः । एतत् कण्ठाभरणं महाराजश्रीभोजदेवेन अलङ्कारशास्त्रत्वेन व्यपदिष्टम् । एतस्य प्रारम्भममामी— “ध्वनिर्वर्णाः पदं वाक्यमित्यास्पदचतुष्टयम् । यस्याः सूक्ष्मादिभेदेन वाग्देवी तामूपास्महे ॥' 'यावन्मूर्ध्नि हिमांशुकन्दलभृति स्वर्वाहिनी धूर्जटे- र्यावद्वक्षसि कौस्तुभस्तवकिते लक्ष्मीरुरद्वेषिणः । यावच्चित्तभुवस्त्रिलोकविजयप्रौढं धनुः कौसुमं भूयात्तावदियं कृतिः कृतधियां कर्णावतंसोत्पलम् ॥” इत्येवमुपश्लोकिते । तद्दानपत्रस्यापेक्षितांशोऽयम्— '...... परमभट्टारकमहाराजाधिराजपरमेश्वरश्री-सीयकदेवपादानुध्यातप- रमभट्टारकमहाराजाधिराजपरमेश्वरश्रीवाक्पतिराजदेवपादानुध्यातपरमभट्टारक- धिराजपरमेश्वरश्रीसिन्धुराजदेवपादानुध्यातपरमभट्टारकमहाराजाधिरा-