साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 345, कुल 506 में से
संदर्भ में पढ़ें४६ साहित्यदर्पणे रोपा । इयमेव रूपकालंकारस्य बीजम् । रूढावुपादानलक्षणा सारोपा यथा—‘अश्वः श्वेतो धावति’ । अत्र हि श्वेतगुणवानश्वोऽनिगीर्णस्व- रूपः स्वसमवेतगुणतादात्म्येन प्रतीयते । प्रयोजने यथा—‘एते कु- न्ताः प्रविशन्ति’ । अत्र सर्वनाम्ना कुन्तधारिपुरुषनिर्देशात्सारोपत्वम् । रूढौ लक्षणलक्षणा सारोपा यथा—‘कलिङ्गः पुरुषो युध्यते’ । अत्र पुरुषकलिङ्गशब्दयोराधाराधेयभावः संबन्धः । प्रयोजने यथा—‘आयु- र्घृतम्’ । अत्रायुष्कारणमपि घृतं कार्यकारणभावसंबन्धसंवन्ध्यायुस्तादा- त्म्येन प्रतीयते । अन्यवैलक्षण्येनाव्यभिचारेणायुष्करत्वं प्रयोजनम् । यथा वा—राजकीये पुरुषे गच्छति ‘राजासौ गच्छति’ इति । अत्र स्वस्वामिभावलक्षणः संबन्धः । यथा वा—अग्रमात्रेऽवयवभागे धावति’ इत्यत्रापि ‘धावति’ इत्यत्र ‘शोभते’ इति द्रष्टव्यम् । अन्यथोपादानलक्षणा न स्यादिति प्रागेव दर्शितम् (४३ पृ०) । अत्र निरुक्तारोपमत्त्वमुपपादयति–अत्र हीति । ‘लक्षणाजन्यपदार्थोपस्थितेः प्राक्काले’ इति शेषः । अनिगीर्णस्वरूपः प्रयुक्तशब्देन प्रतिपाद्यः । एते कुन्ता इति । विषयस्य सामान्यवाचिना सर्वनाम्ना निर्देशेऽपि विशेषरूपेणानुपस्थिताँ साध्यवसाना लक्षणैवेति काव्यप्रकाशकारमतम् । तद्भूतल- मिति प्रतीतिसत्त्वे ‘घटाभाववद्भूतलम्’ इति प्रतीत्यनुदयात्सर्वनाम्नोऽपि विशेषरू- पेणोपस्थापकत्वं कल्प्यत इत्यभिप्रायेण पूर्वमतमतीकृत्य तत्रापि सारोपा लक्षणेति दर्शयति—अत्र सर्वनाम्नेति । आयुर्घृतमिति । अत्र शक्यसंबन्धाक्षेपं च दर्शयति—आयुष्कारणमपीति । अन्यवैलक्षण्येनाव्यभिचारेणेत्यत्र वाकारो बोध्यः । लक्षणाबीजं विविधं शक्यसंबन्धं दर्शयन्दृष्टान्तयुदाहरणान्याह–राजकीय इति । अत्र राजकर्मातिशयपरिच्छेदातिशयो राजवदलङ्घनशासनत्वं वा प्रयोजनम् । अवयवभागे इत्यत्र भागशब्दः स्वरूपार्थः । अत्र प्रयोजनाभावाद्रूढिरेव । हस्त- १. एत इति । 'इदमस्तु सन्निकृष्टे समीपतरवर्त्ति चैतदो रूपम् । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयाद् ॥' इति, कवयस्तु भूतभविष्यन्निर्देशनेष्वपि नियममेकान्ततः आददते । अत एव ‘पूर्वं त्वामवत्’ ‘अभूद्भूमिः’ ‘बभूव रक्षः’ इति ‘अमुं पुरः पश्यसि’ 'अमूं द्विजत्वं' इति चैवमादयो रघुवंशशिशुपालवधप्रयोगाः । २ अग्रेति । अग्रशब्द इत्यत्राग्रमात्रेत्यवयवभागे हस्तशब्दो लाक्षणिकः । हस्ताग्रद- १ 'एते कुन्ता इत्यादौ सारोपा इत्युक्तं न युज्यते २ 'उपपादितमुदाहरणान्तरमाह' घ; 'कार्यकारणभावेन तदुन्मतेऽवस्थिम्' ग. ३ 'अव्यभिचारेण' इति ग पुस्तके नास्ति ४ 'अमुं पश्यसि' इत्याद्युदाहरणान्यदर्शयन्विशेषाभावादेव प्रयोज्यम् इत्युक्तं ग पुस्तके ५ 'यथा च कश्च, ख पुस्तके तु 'यथा' इत्येव ६ 'हस्ताग्रे'ति. ग. ७ 'अवयवे' ग 'हस्तशब्देन मते' क पुस्तके तु 'अग्रेणेति' इति दृश्यते