साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 347, कुल 506 में से
संदर्भ में पढ़ें४८ साहित्यदर्पणे सादृश्येतरसंबन्धाः शुद्धास्ताः सकला अपि ॥ ९ ॥ सादृश्यात्तु मता गौण्यस्तेन षोडश भेदिताः । ताः पूर्वोक्ता अष्टभेदा लक्षणाः । सादृश्येतरसंबन्धाः कार्यकारण- भावादयः । अत्र शुद्धानां पूर्वोदाहरणान्येव । रूढावुपादानलक्षणा सा- रोपा गौणी यथा—'एतानि तैलानि हेमन्ते सुखानि' । अत्र तैल- शब्दस्तिलभवस्नेहरूपं मुख्यार्थमुपादायैव सार्षपादिषु स्नेहेषु वर्तते³ । दिना प्रतीयमानस्य विषयस्य निरुक्ताध्यवसानविशेष्यस्य । पूर्वोदाहरणान्येवेति । श्वेतो धावति । कुन्ताः प्रविशन्ति । कलिङ्गः साहसिकः । गङ्गायां घोषः प्रतिव- संतीति । एतानीत्यर्थ । एवञ्चादीना विशेष्याणां शब्दं विनैव प्रतीयमानत्वाद 'गङ्गायाम्' इत्यादौ तीरं विशेष्यम् । तच्च शब्दं विनैव प्रतीयते । पुनरपि लक्ष- णाया द्वैविध्यमाह—सादृश्येतरेति । सादृश्यादितरे संबन्धा हेतवो यस्या इति समासः । 'सादृश्यात्संबन्धात्' इति शेषः । सादृश्यसंबन्धहेतुका लक्षणा गौण्य इत्यर्थः । तेन निरुक्तद्वैविध्येन पूर्वोदाहरणान्येवेति । 'अश्वः श्वेतो धावति' इत्यादी- न्येवेत्यर्थः । एतानीति । हेमन्ते हि तैलाद्यभावादत्यन्तं दुःखमुत्पद्यते । तन्नि- राकरणेन तैलानामुपकारित्वमिति सूचनाय 'हेमन्ते' इत्युक्तम् । उपादानैव अपरित्यज्यैव । सार्षपादि स्नेहेषु वर्तत इति घृतादिविलक्षणद्रवत्वरूपकधर्मसंब- न्धेन सार्षपादिस्नेहान्प्रतिपादयतीत्यर्थ । 'छत्रिणो यान्ति' इतिवत्तिलस्नेहस्यापि
- गौण्य इति । गुणेभ्य आगता गौण्य इति विग्रहः । 'तत आगतः' इत्यत्र 'द्विगो-' इति ङीप् ॥ १ 'तत्र' ग. २ ग पुस्तके तु 'एव' इत्यस्याग्रे 'सादृश्येतर-' इत्यादि पङ्क्तिका दृश्यते, त दग्ने "आदित्यादिरादित्यो भृगा इन्द्र सादृश्यं' क्षणात् । क्वचिन्स्वामिभावात् 'राजकीय पुरुषो राजा' इति । क्वचित्तादर्थ्यात् 'अनक्षा नजा' इति । क्वचिदवयवावयविभावात् 'सप्तम्येकवचने हल्लोप्यम्' इति । क्वचित्साहचर्यात् 'छत्रिणो यान्ति' इति । एवमन्यान्युदाहरणान्यूह्यानि । पञ्चा- षदष्टाशौ इति वचनात् । सादृश्यसंबन्धात्तु ना एवाष्टधा लक्षणा गौण्यो भवन्ति ।" इति पाठान्तरं वर्तते ३ 'नेयं प्रयोजनवती । नाप्येकदेशिकव्यवहृत्तया सर्षपस्नेहादिनातीय एव प्रसिद्धा निर्दामितत्वात् इति ग-पुस्तकेऽधिकः पाठ ४ 'इति' पुस्तकान्तरे नास्ति ५ क्वचित् 'एषु दध्याद्यभेनेन्दा दिपदनध्याहार्यम् । एनेन लक्षणातावच्छेदकेन सारोपान्यसाध्यवसानानान्तर्गतधर्मयोश्चित्थं न गृह्यं गंमनन् । वस्तुतस्तु त्वामस्मि वन्मि विदुषा समवायोऽत्र तिष्ठति' इत्यादौ 'उपविशन्ति कनिनीना' इत्यादौ चाध्याहारेणापि समानविभक्तिपदामभवाद् 'बटटी वटी करम फज' इत्यादौ 'रागोऽग्नि सर्वञ्चहे' इत्यादौ च मुख्यसंबन्धोभेदाभावादितिसारोपाध्यवसानासंभवात्तादृश नियमस्य व्यभिचार । इ- यञ्च काव्यप्रकाशनरोण 'सारोपाद्या तु यत्रोक्तौ विषयो विषयस्तथा । विषयस्य तुनेव्यन्नित्यन्तव्याख्या
- निता ॥' इति ज्ञातव्यम् । अन्योपादानत्वनिमित्तप्रकृष्टदर्शनान्निमित्तप्रयोगाद्योऽष्टा लक्षणात्व- ... विज्ञातेऽध्यारोपविशिष्टेयम् । एतेन उपपादितैरेव सारोपाध्यवसानसम्बन्ध ... प्रतीयते । न तु यावनीना लक्षणान् । एव च 'गङ्गाया घोष' इत्यादीविदमादिपदाना- ... दृष्टान्ता संगच्छन्ते ।" इत्यादिक दृश्यते,