साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
DevanagariSanskritpublished506 पृष्ठ
पृष्ठ 351, कुल 506 में से
संदर्भ में पढ़ेंपृष्ठ 351
५४ साहित्यदर्पणे 'स्निग्धश्यामलकन्तिलिप्तवियतो वेल्लद्वलाका घना वाताः शीकरिणः पयोदसुहृदामानन्दकेकाः कलाः । कामं सन्तु दृढं कठोरहृदयो रामोऽस्मि सर्वं सहे वैदेही तु कथं भविष्यति हहा हा देवि धीरा भव ॥' द्वेति समाह—धर्मीति । धर्मी लक्ष्यः । तद्वृत्तिपदार्थो धर्मः । स्निग्धश्याम- लेति । विरहिण श्रीरामस्योक्तिरियम् । लिप्तेति । व्याप्तेत्यर्थः । वेल्लद्वलाका सच- ञ्चलवलाकापेता । पयोदसुहृदा मयूराणामाऽऽनन्दजनिका आनन्दजनिता वा केका ध्वनयः ।
- स्निग्धश्यामलेति । व्याख्यातोऽयम् श्लोकः चमत्कारतिशयलाभाय पुनर्व्या- ख्यायते—अत्र रामशब्दाद्विविक्ता । तथाहि—स्निग्धया सहिष्णुसन्नवनरम्यया श्यामलया उद्दीपकविभावत्वेऽपि मनोऽभिरामया कान्त्या कान्तगुणान् विश्रान्त्वङ्कुरित नियन्त्रमो ये । वेल्लन्त्यो वायुसञ्चारवशाच्चलाश्चलन्त्यः परभागप्रसाधनार्थंवेलायाम वलाकाः सितपक्षिविशेषा येषु तथाभूता घनाः । एष नभन्ताददूरागेव वर्तन्ते । द्विष्टोऽपि तु महाः । यत सूक्ष्मजल- कणशालिनो वाता इति मन्दमन्दत्वमेषामनियतदिग्भागगमनं च बहुवचनेन सूचितम् । नहि केवलं दृष्टिरूपविषयव्यञ्जनिया आह—पयोदो मेघः सुहृत् केकाजनकत्वादुप- कारकः येषां तेषां केकारूपमपि पान्थपुंखानामानन्देन हर्षेण केका शब्दविशेषाः रता मयूराः स्युः । नाह्य ह्येतद् पयोदसुहृन् न मयूरस्येति । मयि च दुःखदा इति भावः । सम्प्रत्युद्दीपनाधिक्यं निरूप्यम् । वक्ष्यमाणविधानचाटुत्वे । विभावानां साधारण्य- निर्देशमुक्त्वा सम्प्रत्युद्दिष्टमना मध्ये विधाय महनमाह—काममिति । हठेऽपि कामं कामम् । कठोरहृदय इति । रामशब्दात्प्रसिताशेषावकाशादानाय कठोरहृदयपदम् । ततः विदेहराजदुहित्री इत्यभिप्रायः इति । अन्यथा गात्रस्य दशमदशोपपत्तप्रसङ्गाद्वाच्या- भ्युपगतः कठोरहृदयताभ्युपगतो दशामवस्थाविशेषगमनेन सा न जानन्तीति । गण्याहं सर्वं सहिष्ये सह्यामि प्रसिद्धोऽस्मि । अत एव संभूतसंभोगविलासजनितं यत् सर्वम् । एतादृशं दुःखमनुसृत्य । जीविष्यति ? प्रियासामान्यम् । तेन किं भविष्यतीति । रामः स्वस्वभावतः सुव्यक्ताशक्यसाधनतायाः दृष्टदृष्टिर्वा प्रिया सामान्यस्त्रीस्वभाव- सुलभतया प्राणत्यागशीला तद्विरहदुःखसहेति सम्भ्रमादाह—अयेति । भिन्नं तदुत्तरं भिन्नमेव वा । अत्र सङ्घटनया विरहोत्कण्ठायमानतयाऽमृतं दिशन् अन्तः प्रसह्य, सोऽहं चेतः किमुद्गीर्णमिव क्षणं नोपहसति मलिम्लुचानां सहकारम् । धैर्य्यं त्यक्त्वा प्राहहाहाः इति कातराद्विगुणपदद्वयेन हा देवि! धैर्ये समालम्ब्य । यदिहाधिकतरमाह तद् धिग् धिग् । यद्यस्याः सम्प्रतिकालावस्थाऽज्ञानेऽपि कथं भविष्यतीति संशयवर्णनम् तद्वियोगदुःखात् तादृशावस्थायाश्च सम्भावनातो वा । वस्तुतस्तु पूर्वार्द्धे समुदितैस्तद्भावभावितैरेव विरहिणो दुःसहमहो यत्किञ्चिद्रूपं व्यञ्जयत् सुतरामेव परिपोषाय सम्भवति । अत्र च रामशब्देन राज्यभ्रंशादिनाऽत्यन्तविविधदुःखसहिष्णुत्वं व्यज्यते । सीताशब्देन चातिसुकुमार- तरत्वेन तादृशदुःखासहिष्णुत्वम् । अतो न पुनरुक्तम् । अत एवोक्तम् 'रामोऽस्मि' इति ॥