साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 357, कुल 506 में से
संदर्भ में पढ़ें७८ साहित्यदर्पणे . ‘रजस्तमोभ्यामस्पृष्टं मनः सत्त्वमिहोच्यते’ । इत्युक्तप्रकारो बाह्य- मेयविमुखतापादकः कश्चनान्तरो धर्मः सत्त्वम् । तस्योद्रेको रजस्तमसी अभिभूय आविर्भावः । तत्र हेतुस्तथाविधालौकिककाव्यार्थपरिशीलनम् । अखण्ड इत्येक एवायं विभावादिरेत्यादिप्रकाशसुखचमत्कारात्मकः । अत्र हेतुं वक्ष्यामः स्वप्रकाशत्वाद्यैरपि वक्ष्यमाणरीत्या । चिन्मय इति स्वरूपार्थे मयट् । चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः । तत्प्राणत्वं चास्मद्वृद्धप्रपितामहसहृदयगोष्ठीगरिष्ठकविपण्डितमुख्यश्रीम- न्नारायणपादैरुक्तम् । तदाह धर्मदत्तः स्वग्रन्थे— ‘रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तच्चमत्कारसारत्वे सर्वत्राप्यद्भुतो रसः । तस्मादद्भुतमेवाह कृती नारायणो रसम् ॥’ इति । चमत्कारप्राणः । स्वाकारवदिति । यथा स्वात्माद्भिन्नोऽपि देहोऽहं स्थूल इत्यादि- भेदोल्लेखाभावेन प्रतीयते, तथा रसोऽपि ज्ञातृज्ञानभेदोल्लेखाभावेनास्वाद्यत इत्यर्थः । घटादिज्ञाने जाते वेद्मीति यथा ज्ञातृज्ञानभेदः प्रतीयते तथात्र नेति भावः । यद्वा स्वाकारवत्सविषयवत् । परिणामवादिभिर्ज्ञानविषयोर्भेदानङ्गीकारादिति भावः । कामलोभादिबीजभूतौ मनोवर्मा रजस्तमसी, ताभ्यामस्पृष्टं स्वकार्यजननेऽसंस्पृष्टं मनो मनोधर्मः । विवृणोति—इत्युक्त इति । उक्तस्वरूप इत्यर्थः । बाह्यं बहि- र्भवम् । लौकिकमिति यावत् । मेयं वस्तु । विमुखता ज्ञानानुकूलव्यापाराभावः । तस्यापादकः प्रयोजकः । ज्ञानानुकूलव्यापाराभावश्च दृढमनोयोगः । अभिभूय स्वका- र्याक्षमे कृत्वा । आविर्भावः प्रतिबन्धकाभावेन स्वकार्यक्षमत्वेनावस्थानम् । तत्र सत्त्वोद्रेके । अलौकिको यः काव्यार्थो विभावादिस्तस्य परिशीलनमतन्ताभि- निवेशः । प्रकाशः संवित् । ननु मिलिता विभावादयो रसस्तत्कथमस्याखण्डत्वमत आह—अत्रेति । अखण्डतायामित्यर्थः । हेतुमिति । समुदायालम्बनज्ञानादात्म्यमेव हेतुर्वक्ष्यते । स्वप्रकाशत्वाद्यैरपीत्यादिना सुखतादात्म्यपरिग्रहः । स्वरूपार्थे इति । न त्वन्नमयो यज्ञ इतिवत्प्राचुर्यार्थः । लोकातीताश्चर्यदर्शनेन विस्फारिते नेत्रविकासने चिन्मय दीप्ताप्राचुर्य्यं चित्तविस्तारः । दृष्टहेतुभ्योऽसमन्वितज्ञानेन दिष्टसंज्ञाने मनोव्यापाराभाव एव चित्तविस्तार इत्यपरे । विस्मयो विस्मयशब्दोऽय ----------------- । यद्वा अपरपर्यायोऽस्य । तत्प्राणत्वं ----------------- । सर्वत्र शृङ्गारादौ । चमत्कारप्राण्ये १ 'अयं प्रकाशानन्द...' ग. २ 'दर्शयत्याह-सुख...' ३ 'अस्य' ग. ४ 'मयट्' इति ५ 'रतिरस...' क-ख-ग-पुस्तके ६ 'अस्य' इति नास्ति पुस्तकान्तरे ७ 'प्राणता'