भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 359, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 359

अथ धीरोद्धतः— मायापरः प्रचण्डश्चपलोऽहंकारदर्पभूयिष्ठः । आत्मश्लाघानिरतो धीरैर्धीरोद्धतः कथितः ॥ ३३ ॥ यथा—भीमसेनादिः । अथ धीरललितः— निश्चिन्तो मृदुरनिशं कलापरो धीरललितः स्यात् । कला नृत्यादिका । यथा—रत्नावल्यादौ वत्सराजादिः । अथ धीरप्रशान्तः— सामान्यगुणैर्भूयान्द्विजादिको धीरशान्तः स्यात् ॥ ३४ ॥ यथा—मालतीमाधवादौ माधवादिः । एषां च शृङ्गारादिरूपत्वे भेदानाह— एभिर्दक्षिणधृष्टानुकूलशठरूपिभिस्तु षोडशधा । तत्र तेषां धीरोदात्तादीनां प्रत्येकं दक्षिणधृष्टानुकूलशठत्वेन षोड- शप्रकारो नायकः । एषु त्वनेकमहिलाससरागो दक्षिणः कथितः ॥ ३५ ॥ द्वयोस्त्रिचतुःप्रभृतिषु नायिकासु तुल्यानुरागो दक्षिणनायकः । यथा— स्नाता तिष्ठति कुन्तलेश्वरसुता, वारोऽङ्गराजस्वसु- द्यूते रात्रिरियं जिता कमलया, देवी प्रसाद्याद्य च । अहंकारः अहं महानिति ज्ञानविशेष । दर्प शौर्यवीर्याद्यतिशय । मृदुः अप्र- चण्डचरितः ॥ सामान्यगुणैर्नायकसामान्यगुणैः । धीरोदात्तादित्रितयभिन्नो नायको धीरप्रशान्त इत्यभिप्राय ॥ एषां धीरोदात्तादीनाम् । षोडशधेति । शृङ्गारे षोडशप्रकारो नायको भवति रसान्तरे तु चतुष्प्रकार इत्यवधेयम् ॥ स्नाता ऋतुस्नाता । वार सुरतार्थं नियमितदिवम । जिता जयेनात्मसुरतार्थं प्राप्ता । देवी कृताभिषेका राजपत्नी । देवेन राज्ञा । अप्रतिपत्त्या कर्तव्यानिश्चयेन मूढं व्याकुलम्

  1. एभिरिति । दक्षिणधीरोदात्त , दक्षिणधीरोद्धतः, दक्षिणधीरललितः, दक्षिणधीर- प्रशान्तः, एवं धृष्टादिपदयोजनेन षोडशप्रकारका नायका इत्यवधेयम् ॥ १ ग पुस्तके रत्नावल्याद्या नास्ति, घ पुस्तके तु 'यथा रत्यादिका' इति पाठः, २ 'धीरप्रशान्त' ३ 'नायकासु' घ, ४ 'नायिकस्य' इति घ पुस्तके नास्ति ५ 'नायकः' इति नास्ति ग पुस्तके