साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 375, कुल 506 में से
संदर्भ में पढ़ें१५२ साहित्यदर्पणे क्रोधावेगभयग्लानिसुखदुःखादिकारकः ॥ १५२ ॥ यथा— 'मामोकाशप्रणिहितभुजं निर्दयाश्लेषहेतो- र्लब्धायास्ते कथमपि मया स्वप्नसंदर्शनेन । पश्यन्तीनां न खलु बहुशो न स्थलीदेवतानां मुक्तास्थूलास्तरुकिसलयेष्वश्रुलेशाः पतन्ति ॥' अथापस्मारः— मनःक्षेपस्त्वपस्मारो ग्रहाद्यावेशनादिजः । भूपातकम्पप्रस्वेदफेनलालादिकारकः ॥ १५३ ॥ 'आश्लिष्टभूमिं रसितारमुच्चैर्लोलद्ध्वजाकारबृहत्तरङ्गम् । फेनायमानं पतिमापगानामसावपस्मारिणमाशशङ्के ॥' अथ गर्वः— गर्वो मदः प्रभावश्रीविद्यासत्कुलतादिजः । अवज्ञांसाविलासाङ्गदर्शनाविनयादिकृत् ॥ १५४ ॥ तत्र शौर्यगर्वो यथा— 'धृतायुधो यावदहं तावदन्यैः किमायुधैः । यद्वा न सिद्धमस्त्रेण मम तत्केन साध्यताम् ॥' भुजाक्षेपं कर्तुमर्हतीति । अस्य निद्राभङ्गो नोचित इति भाव ॥ मामिति । यक्षस्य मेघं प्रति प्रियार्थं वाचनिकार्पणमिदम् । मा यक्षम् । कथमपि महता कष्टेन । मुक्ता इव स्थूला ॥ मनःक्षेप इति । मनसो नाटीविशेषनिवेशेन घूर्ण- नमित्यर्थः । ग्रहादीत्यादिना भूतादिपरिग्रह । मध्यमादिपदेन धातुवैषम्यादिपरि- ग्रहः ॥ फेनायमानं फेनमुद्वमन्तम् । असौ श्रीकृष्णः आशशङ्के ज्ञातवान् ॥ मदश्चित्तविकारविशेषः । राज्ञ कोशदण्डादिजन्यः प्रतापः प्रभावः । श्रीश्चि-
- मामिति । मया कथमपि स्वप्नमंदर्शनेन लब्धायाः के तव निर्दयाश्लेषहेतोः गाढा- श्लिङ्गनार्थम् आकाशप्रणिहितभुजं शून्यार्पितबाहु मा पश्यन्तीना स्थलीदेवताना वनदेवताना १. 'मात्स्यमद्यकोपादिरुन्मादस्य कारणम् । शिष्टानामपि विषयज्ञानं भ्रमः । मात्स्यादुन्माद- हेतु । इति ग. २ 'भूयश्चापि तमसि शयने कण्ठलग्ना पुरा मे-'इत्युदाहरणान्तरं ग पुस्तके ३ 'आवेशो ग्रहदुःखाद्यैरपस्मारः स्मृतो बुधैः । मुहुर्निपतनम्भूपातकम्पानान्दोलनादिकृत् ॥' इति ग ४. 'लोलदू' ग ५ 'आंदोलसद्दशावज्ञासहेोगत्रेनादिकृत् । प्रभाव द्विजन्यो मदो गर्व । आदि शब्दाद्दारुण्यसौभाग्यादिः । स चाविनयाद्यनुभावहेतु ।' इति ग. ६. 'यथा' क. घ. ७ अस्मादग्रे 'नमन्यदप्यूह्यम्' इत्याधिकं ग-पुस्तके