साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 38, कुल 506 में से
संदर्भ में पढ़ेंभूमिका । ७३ जपरमेश्वरश्रीभोजदेवः कुशली नागहदपश्चिमपथकान्तःपातिवीराणके समुपगता- न्समस्तराजपुरुषब्राह्मणोत्तरांप्रतिनिवासिपट्टकिलजनपदादींश्च समादिशति—अस्तु वः संविदितम्, यथा अतीताष्टसप्तत्यधिकसाहस्रिक्संवत्सरे (१०७८) माघासि- ततृतीयायां र्वावुदगयनपर्वणि कपित्थहलानां लेख्ये श्रीमद्धारायामवस्थितैरस्माभिः स्नात्वा चराचरगुरुं भगवन्तं भवानीपतिं समभ्यर्च्य संसारस्यासारतां दृष्ट्वा 'वाताभ्रविभ्रममिदं वसुधाधिपत्य- मापातमात्रमधुरो विषयोपभोगः । प्राणास्तृणाग्रजलबिन्दुसमा नराणां धर्मः सखा परमहौ परलोकयाने ॥ भ्रमत्संसारचक्राग्रधाराधारामिमां श्रियम् । प्राप्य ये न ददुस्तेषां पश्चात्तापः परं फलम् ॥' इति जगतो विनश्वरं स्वरूपमाकलय्य उपरितिलिखितग्रामं स्वसीमातृणगोचर- यूतिपर्यन्तं सहिरण्यभागभोगं सोपरिकरं सर्वदायसमेतो ब्राह्मणधनपतिभट्टाय भट्टगोविन्दसुताय बहुचाश्वलायनशाखाय त्रिपवराय वेल्लवप्रतिबद्धथीवादादिनि- र्गतराढह्रदनअवर्णाय मातापित्रोरात्मनश्च पुण्ययशोविवृद्धये अदृष्टफलमङ्गीकृत्य आचन्द्रार्कपर्णदक्षितिरतं यावत्परया भक्त्या शासनेनोदकपूर्वं प्रतिपादित इति मत्वा यथा दीयमानभोगकरहिरण्यादिकमाज्ञाश्रवणविधेयैर्भूत्वा सर्वमस्मै समुपनेतव्यम् । सामान्यं चैतत्पुण्यं दृष्ट्वा अस्मद्वंशजैरन्यैरपि भाविभोक्तृभिरस्मत्प्रदत्तधर्मदायोऽय- म्नुमन्तव्यः पालनीयश्च ....................... इति कमलदलाम्वुविन्दुलोलां श्रियमनुचिन्त्य मनुष्यजीवितं च । सकलमिदमुदाहृतं च बुद्ध्वा नहि पुरुषैः परकीर्तयो विलोप्याः । इति। संवत् १०७८ चेतसुदि १४ स्वहस्तो मङ्गलं महाश्रीः । स्वहस्तोऽयं श्रीभोजदेवस्य ॥ ( इण्डियन एण्टीक्वेरी ६।५३-५४ ) महिमा । समस्तरत्नैरिव श्रीयुक्तम्, सकलशास्त्रविशारदैः पण्डितप्रवरैः अनिशमनुपा- स्याताम् विविद्यविद्योपनिषद्ग्रन्थरत्नसारसंग्रहसारम्, शास्त्रार्थम् पूजितम्, स्वोद्रे- कतर्क कदरसार्थैः वरैः श्रेष्ठैः समृद्धम् । एकेन समन्वितानाम् समृद्धरामाम् पण्डितप्रका- ण्डानाम् (पाण्डित्यभासाम्) विद्यारसिकैः पण्डितोत्तमैः कविशिरोमणिभिः परिवृतैः। भूपतितिलकसारभूतमण्डलेश्वरश्रीभोजदेवः स्वकीयाकीर्तिविख्याताम् इत्थमुदीरितवान्— 'दोषं व्यनक्ति विबुधेषु न विप्रतश्चित्तेभ्यो । शास्त्रार्थसंसदि च शास्त्रविदामयं महिमाऽमन्दः ।' इत्यनेन पद्वेन । यथाविद्भिः सर्वशास्त्रविद्भिस्तत्सारभूतोऽयं ग्रन्थरत्नः विरचितोऽ- ऽयं सूक्तिसंग्रहाभिधानो ग्रन्थोऽस्ति तथैवास्माकं शास्त्रीयग्रन्थोऽयं ग्रन्थविस्तारविस्तारि- १. अयं ग्रन्थः कल्याणपुरनगरेऽपि प्रतिपादितः । सं. भू. ४