साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 391, कुल 506 में से
संदर्भ में पढ़ें१८२ साहित्यदर्पणे तथा च भरतः—'यत्किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्श- वा तत्सर्वं शृङ्गारेणोपमीयते (उपयुज्यते च)' इति। किं च। कथितश्चतुर्विधोऽसावानन्तर्यात् पूर्वरागादेः ॥ २१३ यदुक्तम्— 'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते । कषायिते हि वस्त्रादौ भूयान्रागो विवर्धते॥' इति। तत्र पूर्वरागानन्तरं सम्भोगो यथा कुमारसम्भवे पार्वतीपरमेश्वरयोः प्रवासानन्तर सम्भोगो यथा मम तातपादानाम्— 'क्षेमं ते ननु पक्ष्मलाक्षि—किमअ खेमं महञ्ज दिठं, एतादृक्छतना कुत—तुह पुणो पुट्ठ सरीरं जदो। केनाहं पृथुल, प्रिये—पणइणीदेहस्स समेलगात्, त्वत्त सुभ्रु न कापि मे—जट ट्ठं खेमं कुदो पुच्छसि। एवमन्यत्राप्यूह्यम्। सङ्ख्या च सम्भोगभेदानाह -- किं चेति । एतद्भेदावगितानयत्या पञ्चान- सूचनम्। आदिना मानप्रवासकरुणाविप्रलम्भानां ग्रहणम् ॥ अश्नुते प्राप्नोति स्तेन पूर्वरागादिकं विनापि सम्भोग सम्भवन्नपि मुनिनम। तथा च प्राच्याप्र- भेदेन सम्भोगो द्विविधः । विप्रलम्भानन्तरं सम्भोगः प्रकृष्टः। स च प्रत्यक्ष- भेदेन चतुर्विधः । तातपादानामस्मत् तातपादानाम् ॥ क्षेमं ते इति। संस्कृत- वाक्यस्य प्रश्नं, प्राकृतेन नायिकाया उत्तरम् ...