साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 395, कुल 506 में से
संदर्भ में पढ़ें१८६ साहित्यदर्पणे अथ रौद्रः— रौद्रः क्रोधस्थायिभावो रक्तो रुद्राधिदैवतः । आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनं मतम् ॥ २२७ ॥ मुष्टिप्रहारपातनविकृतच्छेदावदारणैश्चैव । संग्रामसंभ्रमाद्यैरस्योद्दीप्तिर्भवेत्प्रौढा ॥ २२८ ॥ भ्रूविभङ्गोष्ठनिर्देशबाहुस्फोटनतर्जनाः । आत्मावदानकथनमायुधोत्क्षेप णानि च ॥ २२९ ॥ उग्रतावेगरोमाञ्चस्वेदवेपथवो मदः । अनुभावास्तथाक्षेपक्रूरसंदर्शनादयः ॥ २३० ॥ मोहामर्षादयस्तत्र भावाः स्युर्व्यभिचारिणः । यथा— 'कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकं मनुजपशुभिर्निर्मर्यादैर्भवद्भिरुदायुधैः । नरकरिपुणा सार्धं तेषां सभीमकिरीटिना- मयमह मसृङ्मेदोमांसैः करोमि दिशां बलिम् ॥' यस्य स ॥ रौद्ररसमाह—रौद्र इति । तच्चेष्टा रिपुचेष्टा । ता विशिष्याह- मुष्टीति । विकृतं विरुद्धाचरणम् । छेदः खङ्गादिना । अवदारणं शूलादिना अस्य रौद्रस्य । 'अवदानं कर्मवृत्तम्' इत्यमरः ॥ कृतमिति । द्रोणशिरश्छेदेन क्रुद्धस्याश्वत्थाम्नोऽर्जुनं प्रति सूक्तयोक्तिरियम् । इदं मत्पितुश्शिरश्छेदरूपं गुरुपातकं तत्कारणं कर्म यैरुद्धृतायुधैर्मर्यादाशून्यैरेत एव मनुजपशुभिरद्भिः कृतमनुमतं दृष्टं वा, नरकरिपुणा कृष्णेन सार्धं भीमकिरीटिसहितानां तेषां मेदोमांसैरसृजा दिगवस्थितभूतानां बलिं करोमीत्यर्थः । अयमेतत्क्षणवर्तेव । अत्राश्वत्था- ... । तदकार्यमुद्दीपनम् । तादृशगर्जनमनुभावः ॥ त...
- रौद्र इति । क्रोधस्थायिभावको द्विषदालम्बनकस्तदपकाराद्यु... ...गो गर्वादिव्यभिचारिणो रौद्र इति ॥
- कृतमिति । दृप्त रौद्ररसस्य जनकना वृत्तिक्षान्ति, अत 'नवान्त्यंनिवर्धिवनस... अंगवैन्दरे मदीयायुभ्रातृकं गच्छिन्नमाद्यस्य वृणोति । अद्य पततु निदद्य दानववृत्त... ण्डस्योदृष्टशिरश्छङ्गे मम परशवो भैरवः ॥' इत्युदाहार्यम् । तथा च गच्छन्त... पशुगमनेोक्ति । अत्र महोद्धता वृत्ती रौद्रस्य परमोपनिता परिपुष्णाति ॥ १. 'आलम्बनं विरोधी स्यात्' ग २ 'हस्तनिर्देशवदनरागवाक्पारुष्यविस्फुरद् । मोहामर्षादयस्तत्र देवादिव्यभिचारिणः ॥' इति ग