साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 399, कुल 506 में से
संदर्भ में पढ़ें१९२ साहित्यदर्पणे द्राक्पर्यस्तकपालसंपुटमिलद्ब्रह्माण्डभाण्डोदर- भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥' अथ शान्तः— शान्तः शमस्थायिभाव उत्तमप्रकृतिर्मतः॥ २४५ ॥ कुन्देन्दुसुन्दरच्छायः श्रीनारायणदैवतः । अनित्यत्वादिनाऽशेषवस्तुनिःसारता तु या ॥ २४६ ॥ परमात्मस्वरूपं वा तस्यालम्बनमिष्यते । पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः ॥ २४७ ॥ महापुरुषसङ्गाद्यास्तस्योद्दीपनरूपिणः । रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः ।॥ २४८ ॥ निर्वेदहर्षस्मरणमतिभूतदयादयः । यथा— 'रथ्यान्तरश्वरतस्तथा धृतजरत्कन्थालवस्याध्वगै सत्रासं च सकौतुकं च सदयं दृष्टस्य तैर्नागरैः । निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे निःशङ्कः करटं कदा करपुटीभिक्षां विलुण्ठिष्यति ॥' पर्यस्त उत्क्षिप्तः कपालसंपुटं पिधानपात्राकारब्रह्माण्डोपरिभागः तेन द्राग् झटिति मिलत्सङ्गच्छमानं ब्रह्माण्डमेव भाण्डं क्षुद्रश्यावं तस्योदरे भ्राम्यन् अतएव पिण्डितो बहुलीकृतश्चण्डिमा महत्त्वं यस्य । नाद्यापि इदानीमपि । जरागवाक्षवत्सु सस्थालीमध्ये जायमानः शब्दो बहुलो भवतीत्यभिप्रायेणेदम् । अत्र लक्ष्मणस्य विस्मयो धनुष्टङ्कारालम्बनेन तस्यातिदीर्घत्वगुणोद्भापनेन च्छत्रोद्गत्या अनुभावेन व्यक्त आश्चर्य्यरसतामापद्यते ॥ शान्तरसमाह—शान्त इति । अत्र निर्वेदः स्थायिभावः । एतत्पक्षे अवमाननीयत्वमेवालम्बनम् । निर्वेदस्य व्यभिचारित्वेन स्थायित्वायोगात्, शमस्य स्थायित्वेनानुभूयमानत्वाच्च ग्रन्थकृता तदुपेक्षितम्¹। रोमाञ्चाद्या इत्याद्यपदेन दयादीनामपि ग्रहणम् ॥ रथ्यान्तरिति । कस्यचिद्ग- तनिर्वेदस्योक्तिरियम् । रथ्या गृहसमीपदेशः, तन्मध्ये चरतो भिक्षार्थं भ्रमतः । अध्वगैर्नागरैश्च वीभत्सवेषदर्शनेन त्रासः, अनुपादेयकन्थाधारणेन कौतुकम् दीनत्वेन दया । निर्व्याजीकृतं कामादिनाशेन निष्प्रतिबन्धीकृतं यच्चित्सुधाया ज्ञानामृतस्य रस आस्वादस्तस्य मुदा तज्जन्यानन्देन निद्रायमाणस्य मुद्रितनेत्रस्य। 1 उपेक्षितमिति । अत्र यद्वक्तव्यं तत् ‘शमो निरीहावस्थायाम्’ इत्यादौ हितम् (१६६ पृ०) ॥