भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 400, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 400

तृतीयः परिच्छेदः । १९३ पुष्टिस्तु महाभारतादौ द्रष्टव्या । निरहंकाररूपत्वादयावीरादिरेष नो ॥ २४९ ॥ दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलयवत्याद्य- नुरागादेरन्ते च विद्याधरचक्रवर्तित्वार्थितेर्दर्शनान्नहंकारोपशमो न दृ- श्यते । शान्तस्तु सर्वात्मरेणाहंकारप्रशमैकरूपत्वान्न तत्रान्तर्भावम- र्हति । ततश्च नागानन्दादौ शान्तरसप्रधानत्वमपास्तम् । ननु 'न यत्र दुःखं न सुखं न चिन्ता न द्वेषरागौ न च काचिदिच्छा । रसः स शान्तः कथितो मुनीन्द्रैः सर्वेषु भावेषु समप्रमाणः ॥' इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात्तत्र संचार्यादीनामभावात्कथं रसत्वमित्युच्यते- युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः । रसतामेति तदस्मिन्संचार्यादेः स्थितिश्च न विरुद्धा ॥ २५०॥ 'निर्बीजीकृत-' इति पाठेऽपि बीजं वासना तच्छूनीकृतेत्यर्थः । करटः काकः ॥ ननु शान्ते दयादिसिद्धसमर्पणेन दयावीरादिरेवायमित्यत आह—निरहंकार- रूपत्वादिति । आदिना धर्मवीरदानवीरान्प्रभृतीनां ग्रहणम् । एष शान्त- रसः । तथा चाहंसन्तान्तिनो दयाविरेण दयावीरादेर्भेदकः । तदिति शान्तरस इति विशेषः । ततश्चेत्यहंविशेषावधारणाच्च । नागानन्दे दयावीरादिप्रधाने ग्रन्थ- विशेषे ॥ न यत्रेति । द्वेषो रिपूणामुपचितीर्या । रागः सुहृदामुपचितीर्या । इच्छा दैवस्मिन्सुखानुपादिच्छा । भावेषु पदार्थेषु लोष्टाश्मकाञ्चनादिभावादिषु सत्सु राग- द्वेषराहित्येन समन्तविषमं प्रमाणं प्रतीतिर्येन । 'शमप्रधानः' इति पाठस्तु न मनो- रमः, अर्थासंगतेः । तादृशावस्थायां व्यभिचारिभावादीनामसम्भवात् । शम एव स्थायितया प्रधानं यत्र सः । आत्मस्वरूपापत्तिलक्षणायां परमात्मस्वरूपत्वप्राप्ति- रूपायाम् ॥ युक्तवियुक्तेति । विषयेभ्यः प्रत्याहृत्य साक्षात्कर्तव्ये वस्तुनि मनो निधाय वर्तमानश्चिन्तासंतानवान् युक्तः । दस्य योगजधर्मसंस्कृतेन मनसा जिज्ञा- सितवस्तुनासाक्षात्कारों जायते । यश्च भूतेन्द्रियजयी अणिमाद्याः कामनिदीर्घश्रव- णाद्याश्चेन्द्रियादीरमाविन्दन् समाध्यान्विनो वियुक्तः । दस्य च योगजधर्मसं-

  1. स एवेति । तादृशशम एव स्थायिभावो रसतां लभत इत्यर्थः । १ 'दृष्टि-' इति पाठिका नास्ति ग पुस्तके २ 'अन्य दयावीरादौ नागानन्देत्याह' इत्यधिकं ग पुस्तके ३ 'नागान्दादौ' इति नास्ति क घ पुस्तकयोः ४ '-वाहुनादौ' ग घ ५ अदि- इत्योधिक घ पुस्तके ६ 'सर्वेष्वपि' ग ७. 'ततश्च सम्भिवितुमर्हति' ग ८. 'नदे' इ.घ. ९ 'शमप्रधानः' क ख घ १० 'पदार्थेषु' नास्ति पुस्तकान्तरे ११ 'लोष्टकाचनादि' नास्ति पुस्तकान्तरे १२ 'राग-' इत्यादि 'असमन्वात्' इत्यन्त पाठो नास्ति पुस्तकान्तरे साहि० १७