साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 444, कुल 506 में से
संदर्भ में पढ़ेंपञ्चमः परिच्छेदः । २५५ दर्थबोधसिद्धेः । किमिति च 'ब्राह्मण, पुत्रस्ते जातः । कन्या ते गर्भिणी' इत्यादावपि हर्षशोकादीनामपि न वाच्यत्वम् । यत्पुनरुक्तं "पौरुषेयमपौरुषेयं च वाक्यं सर्वमेव कार्यपरम्, अतत्परत्वेऽनुपादेयत्वादुन्मत्तवाक्यवत् । ततश्च काव्यशब्दानां निर- तिशयसुखास्वादव्यतिरेकेण प्रतिपाद्यप्रतिपादकयोः प्रवृत्त्यौपयिकप्र- एवं चेति । अभिधयैव व्यङ्ग्यबोधस्वीकारे चेत्यर्थः । तदर्थेति । लक्ष्यार्थे- त्यर्थः । लक्षणाजन्यबोधानन्तरमपि व्यङ्ग्यबोधायाभिधासत्त्वस्वीकारे लक्षणासत्त्व- स्वीकारस्याकिञ्चित्करत्वादिति भावः । लक्षणाया अस्वीकारे इष्टापत्तेर्दोषान्तरमाह— किमिति चेति । न वाच्यत्वमित्यन्वयः । कन्या अदत्तपुत्री । प्रतिपाद्यस्य मुख- प्रसादादिभिरनुमितानामपि हर्षशोकादीनां शब्दानन्तरप्रतीतत्वेन वाच्यत्वाप- त्तिरिति भावः । रसादीनां तात्पर्यग्राहकसमनुमानेन साध्यतां मतमाह—यत्पु- नरिति । पौरुषेयं पुरुषनिष्पन्नं लौकिकं मन्वादिशास्त्ररूपं च । अपौरुषेयं वेदरूपम् । सर्वमेवेति व्यापकताग्राह्य । यद्युपादेयं वाक्यं तत्कार्यपरम् । यथा 'घटमानय' इति लौकिकं वाक्यं जलाहरणरूपकार्यतत्परम् । यथा वा 'विश्वजिता यजेत' इति वैदिकं वाक्यं स्वर्गरूपकार्यतत्परमित्यन्वयव्याप्तिरत्रावधेया । व्यतिरेक- व्याप्तिं दर्शयति—अतत्परत्वे इति । यद्यन कार्यतत्परं तदनुपादेयदाननम्, यथा उन्मत्तादिवाक्यम्, इति । अनुमिति दर्शयति—ततश्चेति । प्रतिपाद्यस्य श्रोतुः काव्यश्रवणे प्रवृत्तिः, प्रतिपादकस्य वक्तुः काव्यपाठे प्रवृत्तिः, तयोरौप- यिकं कारणीभूतफलेच्छाविषयो यत्प्रयोजनान्तरं चतुर्वर्गादि, तस्यानुपलब्धेः शब्देनानुपस्थानात् । अवधार्यते तात्पर्येण प्रतिपाद्यते । ननु कार्यन्तरवद्रसादि- वाक्यम् । दृष्ट्वाद्याप्यभावानां दायान्तरापेक्षाभावाद्वाक्यान्तरेण सम्बन्ध आदातुदोषान्तरं प्रकरणम् । स्थानं क्रमः । न चानेकशब्दानां सन्निधिरित्युपस्थापनम् । समाख्या योगात्तु । श्रुत्यादीनां समवाये एकोद्देश्यत्वे तेषां मध्ये परस्येण यत्परं तद्देश्यता तद्दुर्बलम् । गुणः । अर्थनिदर्शने पूर्वापेक्षया विनिगमनाप्रमाणाभावोऽपि द्रष्टव्यः । अत्र विशेषः शाबरभाष्यादौ द्रष्टव्यः ॥ १. किमिति चेति । रङ्गनाथान्तर तात्पर्य्यार्थः प्रतीयते तावति शब्दस्यैवैष व्यापार इति मीमांसकमतेन हर्षशोकादीनां किमिति न वाच्यत्वेनेति पूर्वेणान्वयः । न चान्यो हर्षदीर्घसन्निवेशात्, रञ्जन् हर्षविशेषेण वाच्यत्वेति सुचितो भावः । मुखेन तत्संकीर्त्तनात् हर्षविशेषस्य उपलब्धिः, न तु शब्दादिति । न तु हर्षविशेषे रसादीना- मन्तर्भावः शङ्कनीयोऽनुकारप्रख्यानात् इति हि सिद्धान्तः ॥ २. यदिति । 'उक्तं—महिमकल्पानुकूलतया धनिनेन'