साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 447, कुल 506 में से
संदर्भ में पढ़ें२६२ साहित्यदर्पणे नानुमानं रसादीनां व्यङ्ग्यानां बोधनक्षमम् । आभासत्वेन हेतूनां स्मृतिर्न च रसादिधीः ॥ ४ ॥ व्यक्तिविवेककारेण हि—‘‘याऽपि विभावादिभ्यो रसादीनां प्रतीतिः सानुमान एवान्तर्भवितुमर्हति । विभावानुभावव्यभिचारिप्रतीतीनां रसादिप्रतीतेः साधनमिष्यते' ते हि रत्यादीना भावानां कारणकार्या- सहकारिभूतास्ताननुमापयन्त एव रसादीन्निष्पादयन्ति, त एव च संवेदनं प्रत्यक्षम्, ज्ञातता प्रकटता, इति । भट्टमते—नीलादौ ज्ञाते हि ज्ञात- तारूप एको धर्म उत्पद्यते । अनुव्यवसाय इति । नैयायिकमते—नील- ज्ञाने जाते 'नीलमहं जानामि' इति ज्ञानप्रत्यक्षरूपोऽनुव्यवसायो जायत इति फलफलिनोर्भेद एव दृश्यते । भवन्मते तयोरभेदापत्ति । एतदुपलक्षणम् । गङ्गा- पदात्प्रतीयमानस्य पावनत्वादेस्तीरे वैशिष्ट्यासम्भवोऽपि द्रष्टव्य । यदि पुनर्दूरात्- पेक्षया समीपत्तीरे पावनत्वाद्यतिशय सम्भवति स एव गङ्गापदेनप्रत्याय्यत इति संभाव्यते तदा नाय दोष । अत एव तीरस्य मुख्यार्थत्व बाधितत्वं च नास्ति इत्यत्र ग्रन्थकृता 'पावनत्वाद्यतिशयेन लक्षणीयेन सम्बन्ध' इत्यापत्ति काव्या- काशोक्तापि नोक्ता । तनो सम्बन्धसत्त्वेनापत्त्ययोगात् ॥ नाट्ये रामत्वेनाहार्यज्ञा- नविषये नटे, काव्ये तु राम एव विभावादिभी रत्याद्यनुमानं ततस्तदनुमानोल्लसि- तया सामाजिकाना वासणारूपप्रत्यासत्त्या साक्षात्कृतो रामादिरत्यादी रस इति श्रीशङ्कमतानुयायिना व्यक्तिविवेककारादीना मतं दूषयति—नानुमानमिति। अनुमानं व्याप्तिपक्षधर्मताज्ञानम् । आभासत्वेन व्यभिचारादिदोषग्रस्तत्वेन । रसादिबुद्धे सस्कारजन्यज्ञानत्वेन स्मृतित्व साधयता मतं दूषयति—स्मृति- रिति । अत्रापि प्रागुक्तहेतोरन्वय । तन्मतं दूषयितु परिष्करोति—व्यक्तिवि- वेककारेण हीति । 'यदुक्तम्' इत्यग्रेणान्वितम् । याऽपीति । अनुमाने इति अनुमितावेव । एवकारेण परानुमतव्यञ्जनाजन्यबोधव्यवच्छेद । अत्र कारणमाह— विभावानुभावेति । हिशब्दो हेतौ । ननु विभावादिप्रतीतेर्व्याप्तिज्ञानत्वाभावान्न तज्जन्यरसादिप्रतीतेरनुमितित्वम्, अतो विभावादीना व्याप्यत्वमुपपादयति—ते इति । विभावादयो हीत्यर्थ । धूमादिकारणमार्द्रेन्धनादि यथा धूमादिव्याप्यम्, वह्नयादिकार्य धूमादि वह्नयादिव्याप्यम्, तथा रत्यादे कारण विभाव, कार्यम- नुभावश्च रत्यादिव्याप्य इति भाव । तान्रत्यादीन् अनुमापयन्त इति । स्ववि- यकव्याप्तिपक्षधर्मताज्ञानेन बोधयन्त इत्यर्थ । रसादि प्रति विभावादीना कार-
- व्यक्तीति । व्यक्तिविवेककारेण महिमभट्टेनेत्यर्थ । एतेन सपरिकरस्य ध्वनेरनु- मितावान्तर्भावं कर्तुं व्यक्तिविवेको निरमायि । तथा चोक्तम्—'अनुमानेऽन्तर्भावं सं- लक्ष्यैव ध्वने. प्रकाशयितुम् । व्यक्तिविवेक कुरुते प्रणम्य महिमा परा वाचम्' ॥ १ ग पुस्तके तु 'व्यक्ति-' इत्यादि ' -लिहिनो रानम्' इत्यन्त संदर्भों नास्ति