साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 45, कुल 506 में से
संदर्भ में पढ़ें७६ साहित्यदर्पणे टस्य काश्मीरिकलमतितरा प्रसिद्धम् । इतश्च काश्मीरक आनन्दकविर्निदर्शना- रम्भे—'....शिवागमप्रसिद्धषट्त्रिंशत्तत्त्वदीक्षाक्षपितमलपटलः प्रकटितसत्स्वरू- प्चिदानन्दघनो राजानककुलतिलको मम्मटनामा दैशिकवरः....' इति निर्दिशति । अभिनवगुप्तस्य समयस्तल्लेखात् (१०७१) इति संवत् सिध्यति । काव्यप्रकाश- संकेताख्यटीकासमयः (१२१६) इति संवत् पूर्वमुक्तम् । (१२१६-१०७१= १४५ इति समयान्तरम् । एतेन आचार्यमम्मटविषयेऽस्मदनुमानं साधूपपन्नं इति परीक्षणीयम् ॥ रुद्रटः । अयं काव्यालंकारप्रणेता महाकविर्धारापतेर्भोजदेवात्प्राचीनः । यतः— 'किं गौरि मां प्रति रुषा ननु गौरहं किं कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्य- मित्यं गिरो गिरिभुवः कुटिला जयन्ति ॥' इति काव्यालंकारपद्यं सरस्वतीकण्ठाभरणे द्वितीयपरिच्छेदे उदाहृतम् । रुद्रटस्य नामान्तरं शतानन्दः, जनको वामकभट्टः, वेदः सामेति सर्वं तत्कृतौ वेदा- १ बन्धसृष्टिरत्नभूतस्य वक्ष्यमाणस्य चक्रबन्धस्य स्वरूपख्यात्यै दर्पणीयबन्धप्रकार- न्यूनतापूर्त्त्यै च खड्गादिबन्धश्लोकाः प्रदर्श्यन्ते । तत्र खड्गबन्धो यथा— मारारिशकरामेभमुखैरासाररंहसा । साराराध्यस्तवा नित्यं तदर्तिहरणक्षमा ॥ १ ॥ माता नतानां संघट्ट. श्रियां बाधितसंभ्रमा । मान्याय सीमा रामाणां शं मे दिश्यादुमादिजा ॥ २ ॥ मुसलबन्धो यथा— मायाविनं महाहावा रसायातं लसद्भुजा । जातलीला ययासारवाचं महिष मावधी ॥ ३ ॥ चापबन्धो यथा— मानमीटा शरण्या मुत्सुदैवारकप्रदा च धीः । धीरा पवित्रा संत्रासाद्वासीष्टा मातरारम ॥ ४ ॥ बाणबन्धो यथा— नाननापरुषं लोकदेवी सद्रस सन्नम । मनसा सादरं गन्वा सर्वदा दास्यमङ्गताम् ॥ ५ ॥