भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 459, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 459

३४२ साहित्यदर्पणे यथा वेण्याम्—द्रोणोऽश्वत्थामानं राज्येऽभिषेक्तुमिच्छतीति यन्नं कर्णं प्रति 'राजा—साधु अङ्गराज, साधु । कथमन्धथा दत्त्वाभयं सोऽतिरथो वध्यमानं किरीटिना । सिन्धुराजमुपेक्षेत नैवं चेत्कथमन्धथा ॥' दूषणोद्धोषणायां तु भर्त्सना गर्हणं तु तत् । यथा तत्रैव—कर्णं प्रति 'अश्वत्थामा— निर्वीर्यं गुरुशापभाषितवशात्किं मे तवेवायुधं सम्प्रत्येव भयाद्विहाय समरं प्राप्तोऽसि किं त्वं यथा । जातोऽहं स्तुतिवंशकीर्तनविदां किं सारथीनां कुले क्षुद्रारातिकृताप्रियं प्रतिकरोम्यस्त्रेण नास्त्रेण यत् ॥' अभ्यर्थनापरैर्वाक्यैः पृच्छार्थान्वेषणं मता ॥ १९० ॥ यथा तत्रैव—'सुन्दरकः—अज्जा, अवि णाम सारथिनि- दिट्ठो तुब्भेहि महाराओ दुर्योधणो ण वेत्ति ।' प्रसिद्धिर्लोकसिद्धार्थरुत्कृष्टार्थसाधनम् । यथा विक्रमोर्वश्याम्—'राजा— सूर्याचन्द्रमसौ यस्य मातामहपितामहौ । स्वयं वृतः पतिर्द्वाभ्यामुर्वश्या च भुवा च यः ॥' सारूप्यमनुरूपस्य सारूप्यात्क्षोभवर्धनम् ॥ १९१ ॥ अर्थापत्तिरिति ॥ अङ्गराज इति कर्णसंबोधनम् । कथमन्थेति । न वक्तव्यम् । इति शेषः ॥ स द्रोणः । सिन्धुराजं जयद्रथम् । एवं पुनर्नि- भिप्राया । अन्यथा प्रकारान्तरेण । अत्र सिन्धुराजोपेक्षारूपार्थान्तरोक्त्या द्रोण- पुत्राभिषेकाभिप्रायः प्रतीयते ॥ दूषणोद्धोषणायामिति कृतायामिति शेषः ॥ अभ्यर्थनापरैः सविनयैः ॥ अज्जा इति । 'आर्याः, अपि नाम सारथि- दृष्टो युष्माभिर्महाराजो दुर्योधनो न वेति' । इति संस्कृतम् ॥ लोकसिद्धेति लोकख्यातवस्तुभिः । अर्थसाधनं पदार्थापरिचयः ॥ सूर्याचन्द्रमसाविति अत्र सूर्यादिभिः प्रसिद्धार्थैः पुरूरवसः परिचयः ॥ अनुरूपस्य सदृशस्य रूप-

  1. स्तुतिवंशेति । स्तुतिवंशयोः कीर्तनं विदन्ति ये तेषां सारथीनां कुलेऽहं
  2. अस्त्रेणेति । अस्त्रेण नयनाश्रुना ॥ १ 'संनिधानं' क-ग-घ-ड. २ 'अर्थेन' घ