साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 462, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः । ३५१ प्रहर्षः प्रमदाधिक्यं— यथा शाकुन्तले—'राजा—तत्किमिदानीमात्मानं पूर्णमनोरथं ऽभिनन्दामि।' शिक्षा स्यादुपदेशनम् । यथा तत्रैव—'सहि, ण जुत्तं अस्समवासिणो जणस्स अकिदस- क्कारं अदिधिविसेसं उज्झिअ सच्छन्ददो गमनम् ।' एषां च लक्षणं नाट्यालंकाराणां सामान्यत एकरूपत्वेऽपि भेदेन व्यपदेशो गड्डुलिकाप्रवाहेण । एषु च केषांचिद्गुणालंकारभावसंध्यङ्ग- विशेषात्तर्भावेऽपि नाटके प्रयत्नतः कर्तव्यत्वात्द्विशेषोक्तिः । एतानि च— 'पञ्चसंधि चतुर्वृत्ति चतुःषष्ट्यङ्गसंयुतम् । षट्त्रिंशल्लक्षणोपेतमलंकारोपशोभितम् ॥ महारसं महाभोगमुदात्तरचनान्वितम् । महापुरुषसत्कारं साध्वाचारं जनप्रियम् ॥ कर्तव्य एवेत्यर्थावधारणम् ॥ सहि इति । 'सखि, न युक्तमाश्रमवासिनो जनस्या- कृतसत्कारमतिथिविशेषमुज्झित्वा स्वच्छन्दतो गमनम्' इति संस्कृतम् । अत्र शकु- न्तला प्रति सख्या उपदेशोऽस्तियम् ॥ ननु भूषणादीनि यानि लक्षणान्युक्तानि तानि नाट्यभूषणहेतुत्वरूपसामान्यधर्मयोगेन नाट्यालंकारमध्य एवान्तर्भवितुमर्हन्ति, तदेषां भिन्वेनोपादानमतिप्रयोजनमित्यभिप्रायेणाह—एषां चेति । गड्डलि- काप्रवाहेण गतानुगतिकन्यायेन । ननु भूषणस्य दयादय गुणेष्वलंकारे च, शोभाया श्लेषे विशेषणस्य विशेषोक्त्यलंकारे, एवमक्षरादिनाट्यालंकाराणामक्षरा- द्यलंकारेषु, एवं दूत्यादीना दूत्यादिव्यवस्थेषु चान्तर्भावे सिद्धे पुनरुपादानमर्थव- न्नित्यत आह—एषु चेति । लक्षणनाट्य लङ्कारेष्वित्यर्थः । एतानि लक्षणादीनि 'नाटकेऽवश्यकर्तव्यानि' इत्यनेनान्वयः । भोगो भवतिः महादो वा । रचनाया उदात्तत्वं विलासादियुक्तत्वम् । महापुरुषस्य धीरोदात्तनायकस्य सत्कारो
- प्रमदेति । प्रमदस्य आनन्दस्य आधिक्यं न प्रमदाधिक्या ॥ १ 'पूरित' इति मुद्रितः पाठः २ '...न्वितेत्यभिन...' इति नाट्यशास्त्रस्य पाठः ३. 'पवन' इति नाट्यशास्त्रस्य पाठः ।. ४. 'संवाद्यम्' इति नाट्यशास्त्रस्य पाठः