साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 467, कुल 506 में से
संदर्भ में पढ़ें३६० साहित्यदर्पणे अत्र प्रश्नवाक्यमेवोत्तरत्वेन योजितम् । 'नटादित्रितयविषयत्वेने' १ इति केचित् । प्रियाभैरप्रियैर्वाक्यैर्विलोभ्य च्छलना छलम् । यथा वेण्याम्—भीमार्जुनौ— कर्ता द्यूतच्छलानां, जतुमयशरणोद्दीपनः, सोऽभिमानी राजा दुःशासनादेर्गुरुरनुजशतस्याङ्गराजस्य मित्रम् । कृष्णाकेशोत्तरीयव्यपनयनपटुः, पाण्डवा यस्य दासाः क्वास्ते दुर्योधनोऽसौ कथयत, न रुषा द्रष्टुमभ्यागतौ स्वः ॥' अन्ये त्वाहुश्छलं किंचित्कार्यमुद्दिश्य कस्यचित्॥ २५८॥ उदीर्यते यद्वचनं वञ्चनाहास्यरोपकृत् । वाक्केलिर्हाससंबन्धो द्वित्रिप्रत्युक्तितो भवेत् ॥ २५९॥ द्वित्रीत्युपलक्षणम् । यथा— 'भिक्षो मामनिषेवणं प्रकुरुषे, किं तेन मद्यं विना मद्यं चापि तव प्रियं, प्रियमहो वाराङ्गनाभिः सह । वेश्याप्यर्थरुचिः कुतस्तव धनं, द्यूतेन चौर्येण वा चौर्यद्यूतपरिग्रहोऽपि भवतो, नष्टस्य कान्या गतिः ॥' केचित्—'प्रक्रान्तवाक्यस्य साकाङ्क्षस्यैव निवृत्तिर्वाक्केलिः' इत्याहुः । अन्ये च 'अनेकस्य प्रश्नस्यैकमुत्तरम् । अन्योन्यवाक्याधिक्योक्तिः स्पर्धयाधिवलं मतम् । 'त्वया निरहिता मया दृष्टा' इत्युत्तरम् ॥ त्रिगतपदव्युत्पत्तिमाह—नटादीति। आदिना नटीप्रतिनटयोर्ग्रहणं । इदं त्रिगतम् ॥ छलमाह—प्रियाभैरिति। प्रियतुल्यमित्यर्थः । छलना वञ्चना ॥ जतुमयशरणोद्दीपनः जतुमयगृहदाहकः। अङ्गराजस्य कर्णस्य । कृष्णा द्रौपदी तस्याः केशोत्तरीययोरपकर्षणे पटुः । 'स्वः' भवाव । 'आवाम्' इति शेषः ॥ वाक्केलिमाह—वाक्केलिरिति । द्वे वा तिस्रो वा प्रत्युक्तयस्ताभ्यः । समानप्रत्ययानामनेकान्तत्वादत्र उत्तरप्रत्ययाभावः । अनेकस्य प्रश्न- स्यैकमुत्तरमिति वाक्केलिस्त्वित्याहुरित्यन्वयः ॥ अधिवलमाह—अन्योन्येति । उभ-
- त्रितयेति । तथा चाह दशरूपककारः—'श्रुतिसाम्यादनेकार्थयोजनं त्रिगतं विदुः । नटादित्रितयालापः पूर्वरङ्गे तदिष्यते ॥' इति ॥