भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 472, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 472

षष्ठः परिच्छेदः। ३७७ कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ ३३५ ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । यथा—हर्षचरितादिः। 'अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्।' इति दण्डाचार्यव- चनात्केचित् 'आख्यायिका नायकेनैव निबद्व्या' इत्याहुः, तदयुक्तम्। आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैव— 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः।' इति। एषामुदाहरणम्—पञ्चतन्त्रादि । अथ गद्यपद्यमयानि— गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥ ३३६ ॥ यथा—देशराजचरितम् । गद्यपद्यमयी राजस्तुतिर्बिरुदमुच्यते । यथा—बिरुदमणिमाला । करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ॥ ३३७ ॥ यथा मम—षोडशभाषामयी प्रशस्तिरत्नावली । चरितम्॥ दृष्टाचार्यवचनादिति हेतुः 'तदयुक्तम्' इत्यन्वयिः। एषा- मस्य विवर्णनम्॥ गद्यपद्यानि स्वरूपवर्णनम् । भेदाः परस्पर- विशेषः । उद्देशानुरोधादाह गद्यपद्येत्यादि। तथा च भेदं दर्शयन् निखिलम्, न तु पद्यमपि कल्पयेत्॥ इति राजशेखरकृतौ षष्ठः परिच्छेदः साहित्यदर्पणेऽयं षष्ठः प्रस्तरः। १. दण्डाचार्येति। 'अपि त्वनियमो दृष्टः' इति दण्डी। २. दण्डी। 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः' काव्यादर्शे द्रष्टव्यम्। ३. साहित्याचार्यविश्वनाथकविकृतौ मम। इति षष्ठपरिच्छेदः समाप्तः। ग्रन्थाग्रम्

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक) · पृष्ठ 472, कुल 506 में से · BharatKosha