साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 472, कुल 506 में से
संदर्भ में पढ़ेंषष्ठः परिच्छेदः। ३७७ कथांशानां व्यवच्छेद आश्वास इति बध्यते। आर्यावक्त्रापवक्त्राणां छन्दसा येन केनचित् ॥ ३३५ ॥ अन्यापदेशेनाश्वासमुखे भाव्यर्थसूचनम् । यथा—हर्षचरितादिः। 'अपि त्वनियमो दृष्टस्तत्राप्यन्यैरुदीरणात्।' इति दण्डाचार्यव- चनात्केचित् 'आख्यायिका नायकेनैव निबद्व्या' इत्याहुः, तदयुक्तम्। आख्यानादयश्च कथाख्यायिकयोरेवान्तर्भावान्न पृथगुक्ताः । यदुक्तं दण्डिनैव— 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः।' इति। एषामुदाहरणम्—पञ्चतन्त्रादि । अथ गद्यपद्यमयानि— गद्यपद्यमयं काव्यं चम्पूरित्यभिधीयते ॥ ३३६ ॥ यथा—देशराजचरितम् । गद्यपद्यमयी राजस्तुतिर्बिरुदमुच्यते । यथा—बिरुदमणिमाला । करम्भकं तु भाषाभिर्विविधाभिर्विनिर्मितम् ॥ ३३७ ॥ यथा मम—षोडशभाषामयी प्रशस्तिरत्नावली । चरितम्॥ दृष्टाचार्यवचनादिति हेतुः 'तदयुक्तम्' इत्यन्वयिः। एषा- मस्य विवर्णनम्॥ गद्यपद्यानि स्वरूपवर्णनम् । भेदाः परस्पर- विशेषः । उद्देशानुरोधादाह गद्यपद्येत्यादि। तथा च भेदं दर्शयन् निखिलम्, न तु पद्यमपि कल्पयेत्॥ इति राजशेखरकृतौ षष्ठः परिच्छेदः साहित्यदर्पणेऽयं षष्ठः प्रस्तरः। १. दण्डाचार्येति। 'अपि त्वनियमो दृष्टः' इति दण्डी। २. दण्डी। 'अत्रैवान्तर्भविष्यन्ति शेषाश्चाख्यानजातयः' काव्यादर्शे द्रष्टव्यम्। ३. साहित्याचार्यविश्वनाथकविकृतौ मम। इति षष्ठपरिच्छेदः समाप्तः। ग्रन्थाग्रम्