भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 473, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 473

३८० साहित्यदर्पणे अस्यार्थः प्रागेव स्फुटीकृतः । तद्विशेषानाह- ते पुनः पञ्चधा मताः । पदे तदंशे वाक्येऽर्थे संभवन्ति रसेऽपि यत् ॥ १ ॥ स्पष्टम् । तत्र दुःश्रवत्रिविधाश्लीलानुचितार्थप्रयुक्ताः । ग्राम्याप्रतीतसंदिग्धनेयार्थनिहतार्थताः ॥ २ ॥ अवाचकत्वं क्लिष्टत्वं विरुद्धमतिकारिता । अविमृष्टविधेयांशभावश्च पदवाक्ययोः ॥ ३ ॥ दोषाः केचिद्भवन्त्येषु पदांशेऽपि पदे परे । निरर्थकाममर्थत्वे च्युतसंस्कारता तथा ॥ ४ ॥ परुषवर्णतया श्रुतिदुःखावहत्वं दुःश्रवत्वम् । यथा- 'कार्ताथ्र्यं यातु तन्वङ्गी कदानङ्गवशंवदा ॥' अस्यार्थ इति । प्रागेव प्रथमपरिच्छेद एव । श्रुतिदुष्टादेः शब्दार्थोभयरूपस्य रसापकर्षकत्वमिति नाव्याप्तिरिति भावः ॥ तद्विशेषान् दोषविभागान् । ते दोषाः तदंशे पदांशे ॥ दोषविशेषान्निर्दिशति-दुःश्रव इति । अयं भावप्रधानो निर्देशः । दुःश्रवत्रिविधाश्लीलेति समस्तपाठे भावप्रत्ययस्य प्रत्येकं संबन्धात् पृथक्त्वदोषेषु ॥ उद्देशक्रमेण दुःश्रवत्वादिलक्षण मोदाहरणमाह-परुषेति । दोषाणां चिलम्पटत्वादुदाहरणस्यैव दर्शनम् । 'श्रुतिपतितमात्रं यद्वैगुण्यमवदेति तत्पदं सर्वत्रोपा- देयमिति प्रथमं तदुपन्यासः' इत्यन्ये । परुषवर्णेना वर्गानां पारुष्यं पुनरग्रि- मोभविष्यति । श्रोतृणां श्रोत्रावच्छेदेन दुःखजनकत्वं श्रुतिदुःखावहम् । श्रुतिप- तितं मुहुःश्रावहं श्रुतिदुःखावदम्, नत्वं वा । कार्ताथ्र्यमिति । अत्र तकार- रेफयोर्योन पादष्यम् । तत्प्रयुक्तं पदम्य दुःश्रवत्वं साश्रयपदमपन्विनयेन प्रकृतानु- मन्त्रस्य शृङ्गाररसस्य प्रकर्षप्रतीतिं प्रतिबध्नाति । इदमेव 'श्रुतिकटु' इत्यभिधीयते । नन्वेवन्तदपादापारुष्यमेव न तु पदपादष्यमिति चेत् । न । यावद्यत्संयुज्यते

  1. कार्ताथ्र्यमिति । 'अनङ्गमङ्गमृदुपादप्रभङ्गिनिरङ्गिनैः । आलिङ्गितः स तन्वी कार्ताथ्र्यं लभते कदा ॥' इति प्रकाशोदाहरणानुरूपम् ॥ १. 'भवन्' घ-पुस्तके नास्ति. २. 'ग्राम्यः क ३. 'दाभू' इत्यनन्तरम्-