भारतकोश
साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)

Sahityadarpana of Vishwanatha with Hindi Commentary

कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा

DevanagariSanskritpublished506 पृष्ठ

पृष्ठ 474, कुल 506 में से

संदर्भ में पढ़ें
पृष्ठ 474

सप्तमः परिच्छेदः । ३८१ अश्लीलत्वं व्रीडाजुगुप्सामङ्गलव्यञ्जकत्वात्त्रिविधम् । क्रमेणोदाहरणम्— 'दृप्तारिविजये राजन्साधनं सुमहत्तव ॥' 'प्रससार शनैर्वायुर्विनाशे तन्वि ते तदा ॥' अत्र साधन-वायु-विनाश-शब्दा अश्लीलाः । 'शूरा अमरता यान्ति पशुभूता रणाध्वरे ॥ अत्र पशुपदं कातर्यमभिव्यनक्तीत्यनुचितार्थत्वम् । पारुष्यप्रयुक्तवाच्येषु श्रवलवतसदघटकद्वित्रादिवर्णपारुष्यप्रयुक्तपददुःश्रवत्वस्य नी- वारात् । असमर्थान्तरव्यञ्जकमश्लीलं तस्य भावस्तत्ता । पदानामश्लीलत्वं तु असभ्यस्मृतिहेतुत्वमेव । जुगुप्सा घृणा । अमङ्गलममङ्गलशङ्का । व्यञ्ज- कमिह जनकत्वमेव ॥ अत्रेति । सैन्ये प्रयुक्तः साधनशब्दो मेढ्रव्यञ्जनतया श्रोतुर्लज्जाजननेन राजविषयरतिभावस्य, समीरणे प्रयुक्तो वायुशब्दः पशुप्राणजुगु- प्सकतया श्रोतुर्जुगुप्साजननेन, अवसाने प्रयुक्तो विनाशशब्दः शत्रुवधव्यञ्जकतया अमङ्गलशङ्काजननेन, शृङ्गारस्य प्रकर्षप्रतिबन्धकः ॥ अनुचितार्थत्वं क्वचिद्वा- च्यार्थदोषप्रतिपादकत्वेन, क्वचिदर्थासम्भवेन, क्वचिदसमनर्थकत्वेन । तत्रोदाहर- शूरा इति । पशुभूताश्चेत्यस्वरूपम् । अत्र वाच्यार्थस्य शूरस्य कातर्यं दोषः । १. अश्लीलदमिति । इदं काव्यप्रदीपोल्लिखितमपि नास्ति । 'अत्रोदाहरणम्-'