साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 494, कुल 506 में से
संदर्भ में पढ़ेंदशमः परिच्छेदः। ४९५ लम्-' इत्यादौ च नोपमाप्रतिभोत्पत्तिहेतुः श्लेषः । पूर्णोपमाया निर्वि- षयत्वापत्तेः । 'कमलमिव मुखं मनोज्ञमेतत्' इत्याद्यस्ति पूर्णोपमाया वि- षय इति चेत् । न । यदि 'सकल-' इत्यादौ शब्दश्लेषतया नोपमा तत्किमपराद्धं 'मनोज्ञम्' इत्यादावर्थश्लेषेण । 'स्फुटमर्थालंकारावेतावुपासमुच्चयौ, किं तु । आश्रित्य शब्दमात्रं सामान्यमिहापि संभवतः ॥' इति रुद्रटोक्तदिशा गुणक्रियासाम्यवच्छन्दसाम्यस्याप्युपमाप्रयोजक- त्वात् । ननु गुणक्रियासाम्यस्यैवोपमाप्रयोजकता युक्ता, तत्र साधर्म्यस्य वास्तवत्वात् । शब्दसाम्यस्य तु न तथा, तत्र साधर्म्यस्यावास्तवत्वात् । ततश्च पूर्णोपमाया अन्यथोपपत्त्या, गुणक्रियासाम्यस्यैवार्थश्लेषविषयैत- मित्यादौ चेति । श्लेषो नोपमाबाधक इति भावः । तत् तदा । शब्द- मात्रं सामान्यमाश्रित्यापीहालंकारमध्ये संभवत इत्यन्वयः । यद्यपि 'सकल- कलम्-' इत्यादावेकप्रयत्नेन शब्दद्वयोत्पत्त्या शब्दस्याप्येकत्वं न संभवति, तथा- प्येकानुपूर्व्यवच्छिन्नत्वेन शब्दयोरेकत्वप्रतिभास इति भावः । समुच्चयालंकारे एक- धर्मानिसंबन्धस्य निवेशाभावात्तत्समुच्चयपदमत्र तुल्ययोगितापरं दीपकपरं च तयोस्तत्सम्भवात् । नन्वेवं 'किं च तुल्ययोगितायाम्-' इत्यादिना श्लेषतुल्ययोगि- तयोर्वा विषयविभागः कृतः स न संगच्छते 'येन ध्वस्त-' इत्यादावपि शब्दरूपै- कधर्मसंबन्धस्य सत्त्वेन तुल्ययोगिताया विषयसम्भवादिति चेत् । सत्यम् । यैत्रानेक- स्यैकधर्मसम्बन्धावगमे द्विवचनबहुवचनचकाराद्यपेक्षा तत्रैव दीपकपतुल्ययोगितयो- र्विषयः । 'येन ध्वस्त-' इत्यादौ तु द्विवचनाद्यपेक्षाविरहेण तुल्ययोगिताया विषय एव नास्ति । एवं ययोरेकधर्मसम्बन्धस्तयोरनेकप्रयत्नोच्चार्यपदवाच्यत्वं दीकपतुल्य- योगितालक्षणे निवेशनीयमतो नातिप्रसङ्गः । एवं च 'स्वेच्छोपजातविषयोऽपि-' इत्यादिदीपकस्य 'किरणा हरिणाङ्कस्य-' इत्यादि, 'विकसन्नेत्रनीलाब्जे-' इत्यादि च तुल्ययोगितायाश्च विषय इति ध्येयम् । गुणक्रियासाम्यवद्गुणक्रियासाम्यस्येव । तत्र गुणक्रियासाम्यप्रयुक्तोपमायाम् । वास्तवत्वाद् वस्तुसमवेतत्वात् । न तथा नोपमाप्रयोजकता । तत्र शब्दसाम्यप्रयुक्तोपमायाम् । साधर्म्यस्य शब्द- रूपसामान्यस्य धर्मस्य । अवास्तवत्वाद् उपमानोपमेयरूपवस्तुनोरसमवेत- १. कमलेति । 'कमलमिव मुखं मनोज्ञमेतच्छवितारम्' इत्यत्र मनोज्ञत्वलक्षणस्य गुणस्य, प्रकाशलक्षणायाः क्रियायाः, गुणक्रिययोर्वा साम्यात्पूर्णोपमाविषयोऽस्तीत्यर्थः ॥ २. मनोज्ञमिति । मनोज्ञत्वेनोपमानोपमेयभूतयोः कमलमुखयोर्भेदेन द्विष्ठत्वादर्थ- श्लेष इत्यर्थः ॥ १. 'रुद्रटोक्त' क. २. 'च' इति नास्ति मुद्रितपुस्तके ३ 'संगच्छते' घ. ४. 'विषयता' ग. ५. 'यत्र धर्मिनिविष्टत्वेनोपलक्ष्ये शब्दयोरेकत्वया द्विवचनचकाराद्यपेक्षा' इति मुद्रितपुस्तके. ६. 'एवं च पूर्वोक्तनिरूपणे च खलीत्थं' इति मुद्रितपुस्तके पाठः. ७. 'अथ' इति मुद्रितपुस्तके.