साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 496, कुल 506 में से
संदर्भ में पढ़ेंदशमः परिच्छेदः । ५१३ अत्र मुखनयनप्रतिनिधिवस्त्वन्तरयोर्गम्यमानत्वादुपमानलोपः। अत्रैव च 'मुखेन सदृशं' इत्यत्र 'मुखं यथेदं', 'नयनतुल्यं' इत्यत्र 'दृगिव' इति पाठे श्रौत्यपि संभवतीति । अनयोर्भेदयोः प्रत्येकं श्रौत्यार्थीत्वभेदेन चतुर्विधत्वसम्भवेऽपि प्राचीनानां रीत्या द्विप्रकारत्वमेवोक्तम् । औपम्यवाचिनो लोपे समासे क्विपि च द्विधा ॥ २० ॥ क्रमेणोदाहरणम्— 'वदनं मृगशावाक्ष्याः सुधाकरमनोहरम् ।' 'गर्दभति श्रुतिपरुषं व्यक्तं निनदन्महात्मनां पुरतः ।' अत्र 'गर्दभति' इत्यत्रौपम्यवाचिनः क्विपो लोपः । न चेहोपमेयस्यापि लोपः । 'निनदन्' इत्यनेनैव निर्देशात् । द्विधा समासे वाक्ये च लोपे धर्मोपमानयोः । 'तस्या मुखेन' इत्यादौ 'रम्यं' इति स्थाने 'लोके' इति पाठेऽनयो- रुदाहरणम् । क्विप्समासगता द्वेधा धर्मेवादिविलोपने ॥ २१ ॥ धर्मोपमानलोपोदाहरणमिदं स्यात् । प्रतिनिधीति । सदृशेत्यर्थः ॥ इदानीमुपमा- माह—औपम्येति । यत्र वाचकातिरिक्तस्यालोपः क्रियते तत्र वाचकलोपः शिष्टै- रभ्युपगम्यते ॥ वदनमिति । सुधाकरमनोहरमिति पदे समासे सति वाचकस्यापि लोपः । इवार्थस्य समासगम्यतया इवपदप्रयोगः । वदनमन्दिरममृतकरमनोहरम् इत्यपि वाच्यमत्रापि लोपोदाहरणम् । सुधाकर इव मनोहरमिति 'उपमानानि सामान्य- वचनैः' इति कर्मधारयः । एतदेव प्रत्युदाहरणम् । क्विपि उदाहरति—गर्द- भतीति । गर्दभ इवाचरतीत्यर्थे क्विपि विवक्षितार्थवाचकलोपः । यद्यपि 'प्रत्ययलक्षणे' इत्यादौ क्विपो लोपेऽपि गर्दभस्य दृश्यत्वं दृश्यते तद्दर्शनाच्चौपम्यवाचिनः प्रत्ययलक्षणेन गम्यम् । अत्र श्रुतिपरुषं निनदन् गर्दभतुल्यं व्यक्तोल्लङ्घनम् एव । निर्देश्यादिति । उपमेयस्योल्लेखनपदान् ॥ एतमेवोपसंहारपूर्वकमाह द्विधेत्यादि—'मुखेनेत्यादि' १. सुधाकरेति । 'सुधाकर इव मनोहरम्' इति विग्रहे 'उपमानानि सामान्यवचनैः' इत्यनेन समासः इति मध्यपदलोपि—इव इति लुप्तं जातम् अतः केवलं वाचकलुप्तोपमा, उपमेयस्य सातिशयदीप्त्यर्थे सुधाकरमनोहरम् इत्यत्रोपमानोपमेययोर्निषेधार्थे, किन्तु तयोर्धर्म्मसाम्येनेति भावः (मनोहरमित्यंशतोऽपि) इति ज्ञायते एवं क्विपि गर्दभतीत्यंशतो द्रष्टव्यम्— २. गर्दभतीति । 'गर्दभ इवाचरतीत्यर्थे' 'सर्वप्रातिपदिकेभ्यः क्विब् वा वक्तव्यः' इति क्विपि 'लोपो व्योर्वलि' इति वकारलोपः, 'अतो गुणे' इति पररूपत्वम् अत्रोपमानवाचकात्... औपम्यवाचकः क्विप् प्रत्ययः तस्य...