साहित्यदर्पण (आचार्य विश्वनाथ - वाक्यं रसात्मकं काव्यम् सटीक)
Sahityadarpana of Vishwanatha with Hindi Commentary
कविरत्न आचार्य विश्वनाथ / पं. शालिग्राम शास्त्री द्वारा
पृष्ठ 54, कुल 506 में से
संदर्भ में पढ़ेंसाहित्यदर्पणे विशेषतोऽवलोकनार्हा विषयाः। प्रथमे परिच्छेदे-काव्यफलनिरूपणं वस्तुतो दर्शनाईम् ( ३-६ पृ. ) । काव्यस्वरूपनिर्वचनावसरे सर्वाणि प्रमाणवचनानि दर्शनाहीणि ( ६-२० पृ. ) तत्र 'तददोषौ-' इत्यादिकाव्यप्रकाशकारोक्तकाव्यस्वरूपस्य खण्डनग्रन्थगताष्टिप्पण्यो दर्शनाहीः ॥ द्वितीये परिच्छेदे-अभिधा संकेत( ३३ पृ०)पदगता टिप्पणी दर्शनाही । इतरग्रन्थविशिष्टं लक्षणाभेदानां निरूपणं वस्तुतो नैयायिकानामपि दर्शनाहम् ( ३७-५६ पृ. ) । यद्यप्यत्र कतिपये भेदास्तत्र तत्र महाकाव्येष्वनवकाशतया मन्दप्रयोजनास्तथापि लक्षणाभेदव्युत्पादनाय लावश्यका एव ॥ तृतीये परिच्छेदे - 'विभावेन-' ( ७२ पृ. ) कारिकागता टिप्पणी निपुणं विभावनीया । उत्तमादिरूपजिज्ञासुभिर्ने तूलक्षणगतानि प्रायः सर्वाण्येव विशेषणानि निरीक्षणीयानि ( ९७-१०० पृ ) । पुरा भारतवर्षेऽन्तःपुरसहायाः किंविधाः कल्पिता इति तत्त्वजिज्ञासुभिः 'वामन-' ( १०३ पृ. ) इत्यार्या समूललक्ष्यलक्षणा- न्वेषणपूर्वकं समाकलनीया । तत्र किरात-म्लेच्छ-आभीरशब्दगता विशेषा अप्युद्देश्या । साधारणस्त्रीलक्षण ( ११७ पृ. ) निरूपणे कलापदार्थाः प्राचीनरहस्य- वेदिभिरवश्यमनुसंधेयाः । स्वदारगुप्त्यर्थमनुरागोत्तेजितानि ( १३९ पृ. ) दर्शनाहीणि । तत्र शिल्पिन्याद्या संनिधायिका भवन्तीति वात्स्यायनसंमतिर्द्रष्टव्या ( १४१ पृ०) । शृङ्गारादीनां स्वरूपाणि ( १६९ पृ. ) काव्यप्रकाशाद्यपेक्षया स्फीतानि दर्शनाहीणि ॥ चतुर्थे परिच्छेदे-ध्वनिगुणीभूतव्यङ्ग्याख्यकाव्यभेदप्रतिपादनं सुप्रतीतमेव । अत्र 'प्रधान-' ( २४८ पृ ) पदनिष्ठा टिप्पणी विलोकनीया ॥ पञ्चमे परिच्छेदे-व्यञ्जनावृत्तेः स्थापनमितरनन्यापेक्षया स्फीतं प्राञ्जलं दर्शनाहं चास्ते ॥ षष्ठे परिच्छेदे- सर्वोऽपि विषयप्रपञ्चो वस्तुतो दर्शनयोग्यः । किंबहुना, यथान्न नाट्यादीनां दशरूपकाणां नाटिकादीनामष्टादशोपरूपकाणां तद्गतविशेषज्ञा- नानानन्देषां चोच्चावचानां विषयाणां विशदरूपेण निरूपणं निपुणतमं प्राप्यते, न तथा दशरूपकादिषु । सांप्रतमुपलभ्यमानेषु नाट्यशास्त्रपुस्तकेषु तु बहुत्र न्यूनता प्रतीयते । यदि किमपि नाट्यशास्त्रस्याविकलं पुस्तकं लभ्येत तर्हि दर्पोल्लिखितवि- षयजातानां परीक्षा मौलिकदृष्टदृष्टकाव्यान्यवेषनाय विधातुं पार्येत । सति कुड्ये चित्र- मिति न्यायात् । धीमता हॉल्त्साहिबेन दशरूपकेण सह तदुक्तरीत्ये येऽध्यायाः ( १९-२०।३४ ) मुद्रापितास्तेऽपि नाविलाः ।